________________
GROSS
PAL
त्पन्नगुणदात्री भवति ॥ १७ ॥
मूलम्-यथा ग्रहाणां प्रतिमा अजीवाः, सत्योऽपि तत्पूजनतस्तदीयम् ।
गुणं ददत्येव तथा सतीनां, क्षेत्राधिपानामथ पूर्वजानाम् ॥१८॥ विधेर्मुरारेश्च शिवस्य शक्ते-याः स्थापनास्ता अहिता हिता वा।
अमानिताश्चाऽप्यभिमानिताः स्युः, स्तूपं तथा वा फलवन्न किं स्यात् ? ॥१९॥ टीका-अस्योदाहरणमाह-यथेत्यादिना ' यथा ' येन प्रकारेण, 'ग्रहाणाम् '-सूर्यादीनां, 'प्रतिमा'-मूर्तयः, 'अजीवा अपि सत्यः'-जीवरहिता अपि भवन्त्या, 'तत्पूजनतः '-ग्रहप्रतिमापूजनात्, 'तदीयं गुणं'-स्वोत्थगुणं, 'ददत्येव '-निश्चयेन वितरन्ति, 'तथे 'ति समुच्चये, 'सतीनां'-पतीननुपरासनां स्त्रीणां, 'क्षेत्राधिपानां'-क्षेत्रपालानाम्, ' अथे 'ति समुच्चये, ' पूर्वजानां '-पितृणाम् , 'विधेः'-ब्रह्मणः, 'मुरारेः'-विष्णोः, 'च'-पुन:, 'शिवस्य :महेशस्य, तथा 'शक्तेः '-शक्तिदेवतायाः, याः स्थापना भवन्ति ताः स्थापनाः, 'अमानिता:'-असम्मताः सत्यः, 'अहिताः'-अहितकारकाः, 'वा'-अथवा, 'च' शब्दोऽपिशब्दश्चरणपूत्तौं, 'अभिमानिता:'-सम्मताः सत्या, ' हिताः
स्युः'-हितकारका भवन्तीतिभावः, ' तथेति समुचये, वेति निश्चये, 'स्तूपं'-यज्ञादिस्तम्भः, किं 'फलवन्न स्यात् 'है। फलदार नैव भवति ॥ १८-१९ ॥
१. पितृणाम् ।
-
ES HORARIS
-