________________
कारणं भवितुं शक्नोतीतिमावः ॥ १५ ॥ मूलम्--वरं निजेशप्रतिमाऽपि तर्हि, दृष्टा सती भक्ततमांसि हन्तु ।
परन्तु यास्याः क्रियते सपर्या, साजीवेतः कस्य च किम्फला स्यात् ? ॥ १६ ॥ टीका-प्रतिमापूजनविषये प्रश्नयति वरमित्यादिना ' तर्हि तदा वरमिति-एतच्छेष्ठमस्तीत्यर्थः, यत् 'निजेशप्रतिमाऽपि'-स्वामिमूर्तिरपि, 'दृष्टा सती'-अवलोकिता सती, 'भक्ततमांसि हन्तु'-भजनकर्तृजनान्धकारं नाशयतु, 'परन्तु'-किन्तु, 'अस्याः'-निजेशप्रतिमायाः, या 'सपर्या विधीयते '-अर्चा क्रियते, 'सा'-सपर्या, ' अजीवतः'-अजीवभावात् , अजीवहेतोरित्यर्थः, 'कस्य '-पुरुषस्य, 'च'-पुन:, 'किम्फला स्यात् ?'-किम्फला भवति ? फलदात्री भवतीत्यर्थः ॥१६॥ मूलम्-नैवं त्वजीवापि सतीश्वरार्चा, समर्चिता पुण्यफलाय नूनम् ।
त्वं विद्धि चित्ते प्रतिमा यदीया, या या सका स्वोत्थगुणप्रदा स्यात् ॥ १७॥ टीका-अस्योत्तरमाह-नैवमित्यादिना नैवमिति'-एतन्न वक्तव्यमित्यर्थः, 'तु' शब्दश्वरणपूत्तौं, यतः 'अजीवाऽपि '-जीवरहिताऽपि, 'ईश्वरार्चा'-देवप्रतिमा, 'समर्चिता सती'-पूजिता भवन्ती, 'नूनं '-निश्चयेन, 'पुण्यफलाय '-पुण्यरूपफलार्थम् भवति, अत्रैव पुष्टिमाह-त्वमित्यादिना त्वं 'चित्ते'-मानसे, 'विद्धि '-जानीहि, यत् 'यदीया'-यत्सम्बन्थिनी, या या प्रतिमा'-मूर्तिः, भवति, ‘सका'-सा सा, ' स्वोत्थगुणप्रदा स्यात् '-स्वो
१. अजीवत्वहेतोः । २. देवप्रतिमा ।
-
-
-
-
-
-
-