________________
RSSLUGSAOGRESSERIES
मूलम्-गु-वधूच्छायमपीह भोगिनः, प्रोल्लङ्घमानस्य निहन्ति पौरुषम् ।
महेश्वरच्छायमथापि तस्य, रुषे व्यतिक्राम्यत एव पुन्सः ॥१४॥ टीका-उदाहरणान्तरमाह-गुर्वीत्यादिना ' अपि ' शब्दः समुच्चये, 'इह '-अस्मिन् संसारे, 'गुरूवधूच्छायं '-गर्मिणीनां स्त्रीणां छाया, 'प्रोल्लङ्घमानस्य'-व्यतिक्राम्यतः, ' भोगिनः'-भोगकर्तुः पुरुषस्य, यद्वा भोगिन इति सर्पस्येत्यर्थः, 'पौरुषं '-पुरुषार्थ, 'निहन्ति'-नाशयति, उदाहरणान्तरमाह-महेश्वरेत्यादिना ' अथाऽपी 'ति समुच्चये, 'महेश्वरच्छायं'शिवस्य छाया, 'व्यतिकाम्यतः उल्लङ्घमानस्य, 'पुन्स:'-पुरुषस्य, सम्बन्धे 'तस्य'-महेश्वरस्य, 'रुपे'-रोषाय एवेति॥१४॥ मूलम्--एवं पदार्था बहवोऽप्यजीवाः, सुखस्य दुःखस्य च हेतवः स्युः।
देवाधिदेवप्रतिमाऽप्यजीवा, सती न किं सा सुखहेतुरत्र ॥ १५॥ टीका-फलितमाह-एवमित्यादिना' एवम् '-अनया रीत्या, 'वहयोऽपि '-प्रभूता अपि, 'अजीवाः'-जीवरहिताः पदार्थाः, 'सुखस्य '-सौख्यस्य, 'च'-पुन:, 'दुःखस्य'-कलेशस्य, ' हेतवः स्युः' कारणानि भवन्ति, तर्हि ' अजीवाऽपि सती'-जीवरहिताऽपि भवन्ती, 'देवाधिदेवप्रतिमा'-देवेश्वरप्रतिमा, परमेश्वरमूर्तिरित्यर्थः, 'सा'-देवाधिदेवप्रतिमा, 'अत्र'-अस्मिन्संसारे, किं 'सुखहेतुः '-सौख्यकारणं, न भवितुं शक्नोति, उक्तरीत्याज्जीवाऽपि देवाधिदेवप्रतिमा सुख
१. महेश्वरो महानायक: सार्वभौमादिस्तस्य छाया तत्तथा विमापा सेनासुराछायाशालानिशानामिति क्लीवता एवमग्रेऽपि वाच्यम् । २. महेश्वरस्य । ३. उल्लङ्घमानस्य । ४. स्वर्णरुप्यरत्नवस्त्रकम्बलसिद्धानपानौपधादिपदार्था अनेके सन्ति ।