________________
ISTORAGE
OGŁOSHISTORISK H
मूलम्-तथा च चञ्चाविकवस्त्वजीवं, क्षेत्रादिरक्षाकरणे समर्थम् ।
छायाऽप्यशोकस्य च शोकही, कलेस्तु सो स्यात्कलहाय नृणाम् ॥१२॥ टीका-उक्तविपयमेवोदाहरणान्तरेणाह-तथा चेत्यादिना ' तथा चे'-ति समुच्चये, · अजीवं'-जीवरहितम् , 'चञ्चादिकवस्तु '-क्षेत्रस्थितपुरुषाकृतिप्रतिमादिकं वस्तु, 'क्षेत्रादिरक्षाकरणे'-क्षेत्रादिरक्षणविधाने, 'समर्थ '-शक्तम् भवति, उदाहरणान्तरमाह-छायेत्यादिना ' अपि ' शब्दश्च समुच्चये, 'अशोकस्य '-अशोकनामकवृक्षस्य, छाया 'शोकही '-शोकनाशिका भवति, तथा तु शब्दो विशेषणार्थः, 'कले '-कलिवृक्षस्य, विभीतकवृक्षस्येतिभावः, 'सा'-छाया, 'नृणाम् 'मनुष्याणाम् , ' कलहाय स्यात् '-विद्वेषाय भवति ॥ १२॥ मूलम्-अजारजोमुख्यमथाऽप्यजीवं, पुण्यादिहान्यै भवतीति लोकः ।
अस्पृश्यकच्छायमजीवमेवं, यल्लङ्घमानस्य निहन्ति पुण्यम् ॥१३॥ टीका-उक्तविषय उदाहरणान्तरमाह-अजेत्यादिना 'अथे' ति समुच्चये, ' अजीवमपि '-जीवरहितमपि, 'अजारजोमुख्यं '-छागीरेणुप्रभृतिवस्तु, 'पुण्यादिहान्यै भवति'-धर्मादिनाशाय सञ्जायते, ' इति '-एतद्वृत्तं, 'लोकः '-संसारो वक्ति, उदाहरणान्तरमाह-अस्पृश्येत्यादिना 'एवम्'-उक्तरीत्या, 'अस्पृश्यकच्छायं'-चण्डालादीनां छाया, 'अजीवं'-जीवरहितमस्ति ' यत्'-अस्पृश्यकच्छायं, 'लङ्घमानस्य'-व्यतिक्रामतः जनस्य, 'पुण्यं'-धर्म, 'निहन्ति'-नाशयति ॥ १३ ॥
१. छाया । २. चण्डालादिसत्का छाया।
-
--