________________
FORIESARKARISEASEASEASKAR
___टीका-उक्तोदाहरणविषयस्पष्टनपूर्वकं फलितमाह-नाऽत्रेत्यादिना 'तु' शब्दश्वरणपूर्ती, ' अत्र'-उक्तोदाहरणवि
षये, 'तयोः '-सीतारामयोः, यद्यपि कश्चित् '-कोऽपि, 'शरीराकारः'-देहाकृतिः, 'नास्ति'-न विद्यते, तथापि 'इह'5 अस्मिन् संसारे, 'यत् '-यस्मात् कारणात् , ' अजीवतोऽपि '-अचेतनपदार्थादपि, रामाङ्गुलिमुद्रिकाधचेतनपदार्थादपीत्यर्थः,
'तयोः'-सीतारामयोः, 'तथाविधं '-तथाप्रकारम् , 'सुखं '-सौख्यं, 'समायात्'-आगच्छत्, प्राप्तमित्यर्थः, ' तर्हि 'तदा, 'ईश्वरार्चाऽपि'-स्वामिमूर्तिरपि, किं 'सुखाय'-सौख्याय, न भवति, उक्तप्रकारेणेश्वरप्रतिमाऽपि सुखायैव भवति इतिभावः ॥१०॥ मूलम्-इत्थं चरित्रेऽस्ति च पाण्डवानां, यद्रोणसूरिप्रतिमापुरस्तात् ।
भिल्लैकलव्यस्य किरीटिवद्धनु-विद्या सुसिद्धति जगत्पतीतम् ॥११॥ टीका-प्रतिमामहत्त्वमेवाह-इत्थमित्यादिना 'च' शब्दचरणपूत्तौं, ' पाण्डवानाम् '-पाण्डुसुतानाम् , युद्धिष्ठिरादीनाम् इतिभावः, 'चरित्रे'-वृत्तान्ते, 'इत्थमस्ति'-एतद्वृत्तं विद्यते, 'यद्रोणसरिप्रतिमापुरस्तात् '-द्रोणाचार्यमूर्तेः सकाशाद , 'मिल्लैकलव्यस्य'-भिल्लेषु प्रधानस्य लव्यनामकस्य, 'किरीटिवत् '-अर्जुनतुल्यं, 'धनुर्विद्या सिद्धा'-धनुषो विज्ञानम् सिद्धिमुपगतम् , इत्येतत्वृत्तं ' जगत्प्रतीतम् '-संसारे प्रसिद्धमस्ति ॥११॥
१. नाम्नः । २. अर्जुन ।
-
-
-
--