________________
-
SSSSSSSSS
मूलम्-यदन्यशास्त्रेऽपि निशम्यतेऽदा, श्रीरामचन्द्रे परदेशसंस्थे।
तत्पादुकां सोऽपि च रामवत्तदा-ऽभ्यपूजयत्श्रीभरतो नरेश्वरः ॥८॥ सीताऽपि रामागुलिमुद्रिकां ता-मालिङ्ग्य रामाऽऽप्तिसुखं न्यमंस्त ।
रामोऽपि सीताश्रितमोलिरत्न-मासाद्य सीताप्तिरति व्यजानात् ॥९॥॥ टीका-प्रतिमास्थापन उदाहरणान्तरमाह-यदन्येत्यादिना ' यदि 'ति निश्चयेन, अव्ययानामनेकार्थत्वात् , 'अन्यशास्त्रेऽपि '-अन्यस्मिन्नपि शाखे, रामायणादावितिभावः, ' अदः '-वक्ष्यमाणं वृत्तं, 'निशम्यते'-श्रूयते, यत् श्रीरामचन्द्रे 'परदेशसंस्थे'-परदेशे विद्यमाने सति, 'स:'-प्रसिद्धः, नरेश्वरः -भूपा-श्रीभरतः, 'तदा'-तस्मिन्काले, 'तत्पादुकां'-रामस्य पादुका, 'रामवत् '-रामतुल्यम्, 'अभ्यपूजयत्'-अर्चयत्, 'अपि' शब्दश्वशब्दवरणपूत्तौं, तथा 'अपि'शब्दः समुच्चये, 'सीता'-रामभार्या, ' तां'-विवक्षितां, 'रामाङ्गुलिमुद्रिकां'-रामाङ्गुल्याभरणम्, 'आलिङ्ग्य'-संश्लिष्य, 'रामाऽऽप्तिसुखं न्यमंस्त'-रामप्राप्तिसौख्यममन्यत, तथा 'अपि' शब्दः समुचये, रामः सीताश्रितमौलिरत्नमासाद्य '--सीतासम्बन्धिशिरोभूषणरत्नं प्राप्य, सीताप्तिरति व्यजानात् '-सीताप्राप्तिसौख्यमज्ञासीत् ॥ ८-९॥
मूलम्-नात्राऽस्ति कश्चित्तु तयोः शरीरा-कारस्तथापीह तयोस्तथाविधम् ।
सुखं समायाद्यदजीवतोऽपि, तहीश्वरार्चापि सुखाय किं न ? ॥१०॥ १. रामायणादावपि । २. स्वामिमूर्तिरपि ।
more