SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ सलमऊ ॐॐॐॐॐॐ मूलम्-नन्दीश्वरद्वीपपुटात्तथा च, लङ्कापुटात्तद्गतवस्तुचिन्ता । एवं निजेशप्रतिमाऽपि दृष्टा, तत्तद्गुणानां स्मृतिकारणं स्यात् ॥६॥ टीका-उदाहरणान्तरमाह-नन्दीश्वरेत्यादिना 'नन्दीश्वरद्वीपपुरात्'-नन्दीश्वरद्वीपस्य प्रतिचित्रेण, 'तथा चेति समुच्चये, 'लङ्कापुरात्'-लङ्कायाः प्रतिचित्रेण, 'तद्गतवस्तुचिन्ता'-नन्दीश्वरद्वीपस्य पदार्थचिन्तनं, लङ्कास्थपदार्थचिन्तनम् च भवति, दान्तिघटनपूर्वकं फलितमाह-एवमित्यादिना 'एवम् '-अनया रीत्या, 'निजेशप्रतिमाऽपि ' स्वस्वामिनो मूर्तिरपि, ' दृष्टा'-अवलोकिता सती, 'तत्तद्गुणानाम् '-तत्सम्बन्धिगुणानां, ' स्मृतिकारणं स्यात् '-स्मरणहेतुर्मवति ॥ ६॥ मूलम्-यदा तु साक्षान्न हि वस्तु दृश्यं, तत्स्थापना सम्प्रति लोकसिद्धा। तथा च पत्यो परदेशसंस्थे, काचित्सती पश्यति यत्तेदर्चाम् ॥७॥ ____टीका-अत्रैव पुष्टिमाह-यदा वित्यादिना 'तु' शब्दो विशेषणार्थः, ' ही 'ति निश्चये, ' यदा' यस्मिन् काले, | 'वस्तु' 'साक्षात् दृश्यं '-प्रत्यक्षेण द्रष्टुं योग्यं न भवति, तदा 'तत्स्थापना'-अदृश्यवस्तुस्थापना भवति, या तु 'संप्रति '-अधुनापि, 'लोकसिद्धा'-संसारे प्रसिद्धाऽस्ति, अस्योदाहरणमाह-' तथा चेति तथाहीत्यर्थः, 'पत्यौ'भर्त्तरि, 'परदेशसंस्थे'-परदेशे वर्तमाने सति, 'काचित् '-कापि, 'सती'-पतिव्रता स्त्री, 'यदि 'ति निश्चयेन, अव्ययानामनेकार्थत्वात् , ' तदर्चाम् '-पतिप्रतिमां, ' पश्यति '-अवलोकयति ॥ ७॥ १. तस्य पत्यु अर्ची प्रतिमाम् ।
SR No.010011
Book TitleJain Tattavsara Granth Satik
Original Sutra AuthorN/A
AuthorSurchandra Gani
PublisherVarddhaman Satya Niti Harshsuri Jain Granthamala Ahmedabad
Publication Year1941
Total Pages333
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy