________________
SASSORSHASKRICSONGS
तथैव मनोहरा पुत्तलिकाऽपि तादृग्मोहकारणं भवति, स्त्रीविषयं च रागं स्मारयतीत्यर्थः । पुनर्निदर्शनेन कथयति-कामास
नेत्यादिना 'च'-पुनः, 'कामिनः'-कामक्रीडासक्ताः प्राणिनः, 'कामासनस्थापनतः'-कामोत्पादकासनचित्रात् , टू 'कामकेलिविकारान् '-कामक्रीडाविकृतीः, 'कलयन्ति'-अनुभवन्ति । उदाहरणान्तरमभिधातुकाम आह-योगासनेत्यादि
'ही'-ति निश्चये, चरणपूत्तौं वा, ' योगासनालोकनतः'-योगसम्बन्ध्यासनदर्शनेन, 'योगिनाम्'-योगाभ्यासकर्तृणां, है 'योगासनाभ्यासमतिः परिष्यात्'-योगसम्बन्ध्यासनस्याऽभ्यासे बुद्धिर्भवेत् , उदाहरणान्तरमाह-भूगोलेत्यादिना 'भूगोलतःभूगोलविद्यातः, 'तद्गतवस्तुबुद्धिः स्यात् '-भूगोलावस्थितपदार्थज्ञानं भवति, तथा ' इह '-अस्मिन्संसारे, ' लोकनाले'-% लोकनालिकाद्वारा, लोकसंस्थितिः'-लोकस्य संस्थानम् , लोकरचनेति यावत् ॥३-४॥ मूलम्-कूर्माहिकालानलकोटचक्र-स्तदाश्रितज्ञप्तिरिह स्थितानाम् ।
शास्त्रीयवर्णन्यसनात्समग्र-शास्त्रावबोधस्तदभीक्षकाणाम् ॥५॥ ___टीका-उदाहरणान्तरमाह-कूर्मेत्यादिना ' कूर्माहिकालानलकोटचक्ररि 'ति-कर्मचक्रेण सूर्यकालानलचक्रेण चन्द्रकालानलचक्रेण कोटचक्रेण वेत्यर्थः, ' इह'-अस्मिन्संसारे, ' स्थितानाम् '-वर्तमानानाम् जनानाम् , ' तदाश्रितज्ञप्तिः '-कूर्माद्याश्रितपदार्थज्ञानम् भवति, उदाहरणान्तरमाह-शास्त्रीयेत्यादिना 'शास्त्रीयवर्णन्यसनात् '-शास्त्रसम्बन्ध्यक्षरस्थापनया, तदभीक्षकाणाम् '-शास्त्राभिदर्शकानाम्, 'समग्रशास्त्रावबोध:'-सकलशास्त्रज्ञानम् भवति ॥५॥ १. कर्मचक्र अहिचक्र अहिवलयाख्यं वा चक्रं सूर्यकालानलचक्र चन्द्रकालानलचक्र कोटचक्रं वेति वाच्यम् । २. तदनिदर्शकानाम् ।