________________
*3#
K
IRAN6796*3*3980 SHARAISO
मूलम्-नैवं स्वचित्ते परिचिन्तनीय-मजीवसेवाकरणाद्भवेत् किम् ? ।
यद्याशाकारनिरीक्षणं स्या-त्प्रायो मनस्तद्गतधर्मचिन्ति ॥२॥ टीका-अस्योत्तरमाह-नैवमित्यादिना ' एवम् '-इत्थं, 'स्वचित्ते'-निजमानसे, 'न परिचिन्तनीयम्'-न विचारणीयम् , यतः 'अजीवसेवाकरणात् '-अचेतनसेवनेन, किम्फलम् ' भवेत् '-स्यात्, अत्र हेतुमाह-यदित्यादिना ' यत्'यस्मात् कारणात् , ' यादृशाकारनिरीक्षणं स्यात् '-यादृश आकृतेरवलोकनं भवेत् , 'प्रायः'-बहुधा, 'मन-मानसं, 'तद्गतधर्मचिन्ति'-तदाकारस्थितधर्माणाम् चिन्तकम् भवति ॥२॥ मूलम्-यथा हि सम्पूर्णशुभानपुत्रिका, दृष्टा सती तादृशमोहहेतुः ।
कामासनस्थापनतश्च काम-केलीविकारान्कलयन्ति कामिनः ॥३॥ योगासनालोकनतो हि योगिनां, योगासनाभ्यासमतिः परिष्यात्।।
भूगोलतस्तद्गतवस्तुबुद्धिः, स्याल्लोकनालेरिह लोकसंस्थितिः ॥४॥ टीका-दृष्टान्तेनैतद्विषयम् दृढयति-यथा हीत्यादीना ' यथा'-येन प्रकारेण, 'ही 'ति निश्चये, 'सम्पूर्णशुभाङ्ग पुत्रिका'-परिपूर्णमनोहराऽवयवान्वितपुत्तलिका ( 'पुतली ' इति भाषायाम् ) ' दृष्टा सती'-वीक्षिता सती, ' तादृशमोहहेतु:'-तथाप्रकाररागकारणम् भवति, यथा अन्यूनाङ्गोपाङ्गा सौन्दर्यशालिनी च युवतिः साक्षात् प्रेक्षिता सती रागमुद्दीपयति, * अस्य तृतीयश्लोकस्य टीका लिखितहस्तादर्श नोपलभ्यते, अतः साऽत्र मया संदभ्य निवेशिता-संपादकः । १. स्यात् ।
ES CAUSISHIGI BOGARASHUGHURIA