________________
-ALI
FORSA
चेतनानपीतिभावः, 'मूर्च्छयन्ति'-मृच्छौँ नयन्ति, सम्मोहयन्तीतिभावः ॥२१॥ मूलम्-एवं निजेशप्रतिमामजीवां, तन्नामग्राहं स्तवनां विधाय ।
समर्चयभिः कुशलैः सपर्या, सम्प्रापितो ज्ञानमयः प्रभुः स्यात् ॥ २२ ॥ 'टीका-दार्टान्तघटनामाह-एवमित्यादिना ' एवम् '-अनया रीत्या, 'तन्नामग्राहं '-निजेशनामग्रहणपूर्वकं, 'स्तवनां विधाय'-स्तवं कृत्वा, ' अजीवां'-जीवरहिता, 'निजेशप्रतिमां'-स्वस्वामिमृति, 'समर्चयद्भिः'-पूजयद्भिः, 'कुशलैः-दक्षः पुरुषः, 'ज्ञानमय-ज्ञानयुक्तः, 'प्रभुः'-स्वामी, ' सपर्यां सम्प्रापितः स्यात् '-पूजां नीतो भवति, पूजितो भवतीतिभावः ॥ २२ ॥ मूलम्-तथा नियोज्यानपि कांश्चिदात्मनो, मूर्ति प्रभुर्मानयतोऽवसाय।
तुष्यत्यसौ तेषु तथैवमीशो-ऽर्चितो भवेत्तत्प्रतिमार्चनात्स्यात् ॥ २३ ॥ टीका-अत्रैव पुष्टिमाह-तथेत्यादिना 'तथे' ति समुच्चये, यथा 'प्रभु'-स्वामी, लौकिकः कश्चित्प्रभुरित्यर्थः, "मूर्ति'-प्रतिमाम् , स्वकीयां मूर्तिमित्यर्थः, 'मानयतः '-सम्मतां कुर्वतः, 'आत्मनः '-स्वस्य, 'कांश्चित् '-कानपि, 'नियोज्यान्'-सेवकान्, 'अपि ' शब्दश्चरणपूर्ती, ' अवसाय '-ज्ञात्वा, ' तेषु तुष्यति'-तेषामुपरि तुष्टो भवति, तथैवमिति' तेनैव प्रकारेणेत्यर्थः, 'स्यादि 'ति प्रसिद्धौ, 'असौ '-प्रसिद्धः,' ईश:'-स्वामी, 'तत्प्रतिमार्चनात् '-तस्य
१. सेवकान् ।
REERSASAROKAR
N SAR