________________
तदङ्गने पादविहारवयः, शिवालयावस्थितिकृन्महात्मनां ।
तेनात्मबोधः परमोऽस्ति धर्मो, यत्सेधनान्निर्वृतिरेव निश्चिता ॥ ३५ ॥
टीका - आत्मावबोधप्रशस्तिमाह - पौर्व इत्यादिना ' योऽखिलद्रव्यभावभिन्न ः ' - सर्वद्रव्यभावभेदेन भेदं प्राप्तः, 'पौर्वः' - पूर्वोक्तः, 'विधिः ' - विधानमस्तीतिशेषः, इति निश्चयेन, 'सः' - पूर्वोक्तो विधिः, 'निर्वाणधाम्नः ' - मुक्तिसौधस्य, ' द्वारधरो - पलब्ध्यै ' - प्रांगण भूमिप्राप्तये, 'चरयानवत् स्यात् ' - श्रेष्ठवाहन तुल्योऽस्ति, तथेतिशेषः, ' इह ' - अस्मिन्संसारे, ' तस्य प्रवेशे ' - मुक्तिसौधप्रवेशाय, ' अयं - पूर्वोक्तः, ' आत्मबोधः ' - आत्मज्ञानं, 'तदंगने ' - मुक्तिसौधाङ्गने, ' पादविहारवत् 'चरणविहरणतुल्यः, अस्तीतिशेषः, 'गः ' - आत्मबोधः, महात्मनाम् जनानामितिशेषः, 'शिवालयावस्थितिकृत् ' - मुक्ताव. वस्थानकारक, अस्तीतिशेषः, 'तेन' - कारणेनेतिशेषः, ' आत्मबोधः - आत्मज्ञानं, 'परमो धर्मोऽस्ति ' - उत्तमो धर्मो भवति, ' यत्सेधनात् ' - यस्याऽऽत्मबोधस्य साधनात्, 'निर्वृतिः '- मुक्ति', 'निश्चितैव'- निश्रययुक्तैव, भवतीतिशेप, यस्याssत्मबोधस्य साधनात् नूनं मुक्तिप्राप्तिर्भवतीतिभावः ॥ ३४-३५ ॥
मूलम् - सन्त्यत्र यदूबोधनदर्शनाख्य-चारित्रमुख्याः
सकला गुणौघाः । स आत्मबोधो जयति प्रकृष्टं ज्ञानादिशुद्धं यदिहास्त्यनन्तम् || ३६ ||
टीका - आत्मबोधस्य परमधर्मत्वे हेतुमाह - सन्त्येत्यादिना 'यत्' - यस्मात् कारणात्, 'अत्र' - आत्मबोधे, ' बोधनदर्श१. आत्माववोधे । २. ज्ञान ।