________________
नाख्यचारित्रमुख्याः ' - ज्ञान - दर्शन - चारित्रादिनामकाः, 'सकलाः' - सर्वे, 'गुणौघाः सन्ति' - गुणसमूहा वर्तन्ते, 'स' - इत्थंभूतः, आत्मबोधः ' - आत्मज्ञानं, ' प्रकृष्टं ' - प्रकृष्टरीत्या, क्रियाविशेषणमेतत्, ' जयति ' -जययुक्तो भवति, ' यत् ' - यस्मात् कारणात्, 'इह ' - आत्मबोधे, 'ज्ञानादिशुद्धं ' - ज्ञानादीनां शुद्धिः, भावे क्तप्रत्ययः, ' अनंतमस्ति ' - अन्तरहितं वर्त्तते ॥ ३६ ॥
"
मूलम् - तच्छोधनेऽनन्तचतुष्टयाप्ति - र्यदीयपारप्रतिप्रतिकार्ये ।
ज्ञानं न कस्यापि सदा प्रभु स्यात्सर्वात्मनाकाशदृशीव शाश्वतम् ॥ ३७ ॥
टीका - ज्ञानादिशुद्धौ किं भवतीत्याह - तच्छोधन इत्यादिना 'तच्छोधने' - ज्ञानादिशुद्धौ सत्याम्, 'अनन्तचतुष्टयाप्तिः 'अनन्तचतुष्टस्य प्राप्तिः, अनन्तज्ञानाऽनन्तदर्शनाऽनन्तवीर्याऽनन्तसुखरूपाऽनन्तचतुष्टयस्य लब्धिरितिभावः, भवतीतिशेषः, 'यदीयपारप्रतिपत्तिकार्ये' - यत्सम्बन्धि पारगमनकार्ये, 'कस्याऽपि ' - कस्यचिज्जनस्येतिशेषः, 'ज्ञानं' - चोधः, 'आकाशदृशीव' - आकाशदर्शन इव, 'शाश्वतं ' - निरन्तरम्, 'सर्वात्मना ' - सर्वस्वरूपेण, सर्वथेतिभावः, 'सदा' - सर्वदा, 'प्रभु' - समर्थ, 'न स्यात्' - न भवति, यथाकाशदर्शने कस्यापि ज्ञानं समर्थ न भवति तथैवाऽनन्तचतुष्टयपारदर्शनेऽपि कस्याऽपि ज्ञानं समर्थं न भवतीतिभावः ॥३७॥
श्रीजैनतच्चसारे नास्तिकस्य द्रव्यभावभेदद्विविधधर्मदर्शनपूर्वक द्रव्यधर्मादपि परम्परया भावधर्मलाभोक्तिलेशः षोडशोऽधिकारः ।
१. आत्मावबोधस्य सम्यग् निर्मलतायां । २. आकाशदर्शने इव ।