________________
'स्वकीय व्यवहाररक्षा कार्या' - आत्मीयाचाररक्षा कर्त्तव्या, कथम्भूतेन कुलीनेन ? ' सनिश्चयेन' - निश्चयरता, निश्चयनयध्यायिनेतिभावः, अत्र हेतुमाह- सनिश्चय इत्यादिना ' यतः ' - यस्मात् कारणात्, 'एवम् ' - इत्थम्, अनया रीत्येतिभावः, 'गृहस्थः ' - गृही, 'परै: ' - अन्यैः, जनैरितिशेषः, 'निन्द्यो न भवेत् ' - निंदनीयो न जायते, कथंभूतो गृहस्थः ? ' सनिश्चयः '- निश्च यवान्, निश्चयनयध्यायीतिभावः, पुनः कथंभूतः १ ' सव्यवहारः ' - व्यवहारेण सहितः, व्यवहारनयकर्तेतिभावः ॥३१-३२॥ मूलम् - स्थिरं यदा चित्तमनाकृतावपि तदा तु सिद्धस्मरणं विधेयम् ।
d
तत्सेधने साधुगृहस्थमुख्यै - रात्मावबोधे परियत्न एष्यः
॥ ३३ ॥
टीका - सति चित्तस्थैर्ये तेन किं कर्त्तव्यमित्याह - स्थिरमित्यादिना ' यदा ' - यस्मिन् काले, 'अनाकृतावपि ' - आकाररहितेऽपि ' - पदार्थ इतिशेषः, 'चित्तं' - मनः, 'स्थिरम् ' - अचञ्चलम् भवेदितिशेषः, ' तदा - तस्मिन् काले, 'तु ' शब्दश्वरणपूत, ' सिद्धस्मरणं ' - सिद्धानां स्मरणं - ध्यानं, ' विधेयम् ' - कर्त्तव्यम्, सिद्धस्मरणाय किं कर्तव्यमित्याह - तत्सेधनेत्यादिना ' तत्सेधने ' - तत्साधनाय, सिद्धस्मरणसिद्धये इतिभावः, 'साधुगृहस्थमुख्यैः ' - साधु गृहस्थादिभिः, 'आत्मावबोधे ' - आत्मज्ञानाय, ' परियत्नः - पुरुषकारः, ' एष्यः ' - अभिलषणीयः कर्त्तव्य इतिभावः ॥ ३३ ॥
मूलम् - पौव विधिर्योऽखिलद्रव्य भाव-भिन्नां स हि द्वारधरोपलब्ध्यै ।
निर्वाणधाम्नो वरयानवत्स्या- त्तस्य प्रवेशेऽयमिहाऽऽत्मबोधः ॥ ३४ ॥
१. भू ।