________________
टीका-पूक्तिविषयमेवाह-एत इत्यादिना 'एते '-पूर्वोक्ताः, 'गृहस्था: '-गृहिणः, 'हृदये '-मानसे, 'इतीव संकल्प्य '-इत्येतद्विचार्यैव, 'द्रव्यधर्मम्'-द्रव्यद्वारा धर्म, 'विदध्युः'-कुर्युः, 'च' शब्दचरणपूनौं, यदितिशेपः, 'चेत् 'यदि, 'यथा येन प्रकारेण, 'द्रव्येण '-द्रव्यद्वारा, 'कर्माणि'-कार्याणि, समाचरव्य '-कारयित्वा, 'इदं '-प्रसिद्धम् , 'मनो'-मानसं, 'तुष्टिं निघते'-संतोपं दधाति, तीतिशेषः, ' तथैव '-तेनैव प्रकारेण, 'द्रव्येण '-द्रव्यद्वारा, 'कानिचित् '-कान्यपि, धर्माण्यपि, ' कृत्वा'-विधाय, ' स्वमनः '-निजमानसं, 'प्रसन्नं '-हृष्टं, कुर्मः, 'येन'-कारणेनेतिशेपः, 'अत्र'-अस्मिन्संसारे, ‘गृहस्थसत्कः '-गृहिसंबन्धी, “एप:'-प्रसिद्धः, 'व्यापारः '-व्यवहारः, 'द्रविणेनैव'धनेनैव, 'सिध्येत् '-सिद्धिं याति ॥ २६-२७ ॥ .
मूलम्-एपां यतो द्रव्यवतां स्वधर्म, द्रव्येण साद्धं भवतीह चेतः।
युक्तं यदो यस्य बलं यदीयं, बलेन तेनैव मतं निजं क्रियात् ॥ २८॥ टीका-गृहस्थानामेवं करणे पुष्टिमाह-एपामित्यादिना ' यतः '-यस्मात् कारणात् , 'इह'-अस्मिन् संसारे, 'एप'-पूर्वोक्तानाम् , 'द्रव्यवताम् '-धनिनाम्, गृहस्थानामितिशेषः, 'द्रव्येण '-द्रव्यद्वारा, स्वधर्म'-निजधर्म,
' सार्बु'-साधयितुम्, 'चेतो भवति'-इच्छा जायते, ' ही 'ति निधये, 'अदः'-एतत् , ' युक्तं'-योग्यम् , अस्तीतिशेषः, MC यत इति च शेपः, यस्य जनस्येतिशेपः, 'यदीयं'-यत्संबंधि, 'वलं'-शक्तिः , अस्तीतिशेषः तेनैव बलेन'-सा
स इति शेषः, 'निजं मतं'-स्वाभीष्टम् धर्ममितिशेषः, 'क्रियात् '-करोतु ॥ २८ ॥
*964954039*39*39*85**35A