________________
-
GeekGSHOSSEISTOSTA
तेऽमी स्वचेतःप्रतिभातपुण्य-कार्योद्यता आत्मरुचिप्रवृत्ताः।
यदेव ते स्वीयमनोऽभितुष्टयै, कुर्वन्ति पुण्यं किल कुर्वतां तत् ॥ २५ ॥ टीका-गृहस्थाचारविषयमेवाह-प्रायेणेत्यादिना ' ते '-पूर्वोक्ताः, ' अमी '-प्रसिद्धाः, ' गृहस्थाः '-गृहिणः, 'प्रायेण '-बहुधा, 'सावधरताः '-पापमयव्यापारतत्पराः, 'सदा'-सर्वदा, 'ऐहिकार्थाधिकृतौ'-सांसारिकद्रव्याने, 'प्रसक्ताः'-संलग्नाः, 'कुटुम्बेत्यादि । 'कुटुम्बस्य'-परिवारस्य, 'पोपे'-पोषणे, 'आदताः'-स्वीकृताः, 'भूरिसङ्ख्या'-प्रभूतसंख्याका, 'उच्चनीचवार्ताः '-उत्तमाऽधमजीविकायैस्तैः तथा, 'परतन्त्रखिन्नाः '-पराधीनतया दु:खिताः, 'स्वचेतः प्रतिभातपुण्यकार्योद्यता:'-स्वमनो मानिते पुण्यकर्मणि तत्पराः, तथेतिशेषः, 'आत्मरुचिप्रवृत्ताः'-स्वरुच्या प्रवृत्ति कुर्वन्तो भवन्तीतिशेषः, अत इति च शेषः, 'ते'-गृहस्थाः, ' स्वीयमनोऽभितुष्टयै '-स्वमानससन्तोषाय, 'यदेव पुण्यं कुर्वन्ति । " किले 'ति निश्चये, 'तत् '-पुण्य, 'कुर्वताम् '-आचरन्तु ॥ २४-२५ ॥ मूलम्-एते गृहस्था हृदये विदध्यु-रितीव सङ्कल्प्य च द्रव्यधर्मम् ।
द्रव्येण कर्माणि समाचरय्य, यथा मनस्तुष्टिमिदं निधत्ते ॥ २६ ॥ तथैव धर्माण्यपि कानिचिच्चेद्, द्रव्येण कृत्वा स्वमनः प्रसन्नम् ।
कुर्मोऽत्र येनैव गृहस्थसत्को, व्यापार एष द्रविणेन सिध्येत् ॥ २७॥ १. मानित । २..पुण्यादि ।
-