________________
REGACASSESSAGE
मूलम्-तद्रव्यधर्म गृहिणां प्रकुर्वतां, संसारकार्यान्मनसोऽस्तु संवृत्तिः।
यथा तथैते दधतां मनः स्वकं, *सालम्बने पुण्यविधावपेक्षणमू ॥२९॥ टीका-उक्तविषयमेवाह-तद्रव्येत्यादिना 'तत् '-पूर्वोक्तं, 'द्रव्यधर्म'-द्रव्यद्वारा धर्म, 'प्रकुर्वताम् '-कुर्वाणानाम् , 'गृहिणार'-गृहस्थानाम् , ' यथा'-येन प्रकारेण, 'संसारकार्यात् '-लौकिककर्मणः, 'मनसः'-मनस्य, 'संवृतिरस्तु'निवृतिः स्यात् , ' तथा'-तेन प्रकारेण, 'एते'-गृहस्थाः 'सालम्बने पुण्यविधौ'-आलम्बनसहिते पुण्यकार्ये, साकारजिनपूजायां साधुवेषसेवायाम् प्रतिलेखनाप्रमार्जनादानादिकर्त्तव्ये च द्रव्यधर्मत्रय इतिभावः, 'अपेक्षणम् '-अपेक्षापूर्व, 'स्वकं मन:'-निजं मानसं, 'दधताम् '-स्थापयन्तु ॥ २९ ॥ मूलम्-तद्यावतामी निजकेन्द्रियाणि, संवृत्य संसारभवक्रियातः।
तदेव पूजादिकमाश्रयन्तां, मनः स्थिरं येन मनागपि स्यात् ॥३० ।। टीका-उक्तविषयमेवाह-तद्यावतेत्यादिना 'तत् '-तस्मात् कारणात् , ' अमी'-गृहस्थाः, 'संसारभवक्रियातः'संसारसंबंधिन्याः क्रियायाः, 'निजकेन्द्रियाणि संवृत्य'-स्वेद्रियाणि संरुध्य, 'यावता'-यत्परिमाणकेन येन कार्येनेति-8 शेषः, 'मनागपि '-स्वल्पमपि, 'मन' -मानसं, 'स्थिरं स्यात् '-अचञ्चलं भवेत् , ' तदेव ' 'पूजादिकम् '-अर्चादिकम् कार्यमितिशेषः, 'आश्रयन्ताम् '-कुर्वन्तु ॥ ३०॥
* साकारजिनपूजायां साधुवेषे प्रतिलेखनाप्रमार्जनादिकर्तव्ये च द्रव्यधर्मत्रये । १. सम्बन्धि ।