________________
च शेषः, 'च' शब्दश्चरणपूर्ती, ' एते '-गृहस्था अपि, 'सुखीभवन्ति'-सुखिनो जायन्ते ॥ १८ ॥ मूलम्-एवं तु ये केपि जनाः स्वशासने, सत्तां श्रिताः श्रीपरमेश्वरस्य ।।
तत्पीतये तेऽपि गुणानिमाननु-यान्ति विज्ञाः परब्रह्मलिप्सवः ॥ १९ ॥ टीका-अत्रैव पुष्टिमाह-एवमित्यादिना एवं त्वि' ति अनयैव रीत्येत्यर्थः, 'ये केपि 'जनाः'-मनुष्याः, शाक्यनैयायिकवैशेषिकादय इत्यर्थः, 'स्वशासने '-स्वमते, ' श्रीपरमेश्वरस्य'-ईश्वरस्य, ' सत्तां'-भावं, 'श्रिताः'-कृतनिश्चयाः सन्तीतिशेषः, परमेश्वरोऽस्तीति तत्सेवनात् मुक्तिरिति ये परमेश्वरस्य सद्भावं भजंत इत्यर्थः, ' तेऽपि विज्ञाः '-विद्वांसः, ' परब्रह्मलिप्सवः '-परब्रमप्राप्तीच्छायुक्ताः सन्तः, 'तत्प्रीतये '-परमेश्वरप्रीतये, ' इमान् '-पूर्वोक्तान्, 'गुणान् 'क्षान्त्यादीन्, 'अनुयान्ति'-अनुगच्छन्ति, आश्रयन्तीतिभावः ॥१९॥
गृहस्थैर्द्रव्यधर्मसेवनम् व्यवहारस्यापि पालनञ्च अष्टादशभिः श्लोकैराहमूलम्-साधो ! गृहस्था अपि देशतोऽमी, अयन्त्वमूनेव गुणांश्चिराय।
- परन्तु यत्कर्मणि जीवहिंसा, अयन्ति चेत्तन्न परं तदेपाम् ॥ २०॥ टीका-गृहस्थानां सिद्धगुणाश्रयणे प्रश्नयति-साधो इत्यादिना ' हे साधो !' हे मुने !, 'अमी'-पूर्वोक्ताः, , १. शाक्यनैयायिकवैशेषिकाद्याः । २. मते । ३. परमेश्वरोऽम्तीति तत्सेवनात् मुक्तिरिति ये परमेश्वरस्य सद्भाव भजन्ते तेऽपि । ४. परमेश्वरप्रीतये ।
RASHISHIRSHASSANS
-
-
-