________________
SAHISHASIRSS
'गृहस्थाः '-गृहिणोऽपि, 'देशतः '-देशद्वारा, एकदेशेनेत्यर्थः, 'अमून् '-पूर्वोक्तान एव, ‘गुणान् '-क्षान्त्यादीन् , 'चिराय'-चिरकालपर्यन्तं, 'श्रयन्तु '-आश्रयन्ताम् , ' परन्तु '-किन्तु, 'यत्कर्मणि'-यस्मिन्कायें, 'जीवहिन्सा'-जीवानाम् हननम् , भवतीति शेषः, 'तत् '-कर्मेवि शेपः, 'चेत्'-यदि, गृहस्था इति शेषः, 'श्रयन्ति'-आश्रयन्ते, तहीति शेषः, तज्जीवहिंसायुक्तकर्माश्रयणाम्, 'एषां'-गृहस्थानाम्, 'न वरं'-न श्रेष्ठमस्तीतिभावः ॥ २० ॥ मूलम्-सत्यं गृहस्थाः खलु ते भवन्ति, प्रायो हि ते स्थूलधियोतिचिन्ताः।
आरम्भवन्तश्च परिग्रहादराः, सूक्ष्मेक्षिकालोकनकुण्ठबुद्धयः ॥२१॥ एते विनालम्बनमत्र तत्त्व-त्रये विमुह्यन्ति ततः शुभार्थम् ।
साकारपूजां धृतसाधुवेष-सेवां च दानादि सृजन्तु नित्यम् ॥२२ ।। टीका-अस्योत्तरमाह-सत्यमित्यादिना 'सत्यमि 'ति-पूर्वोत्तं तव कथनं सत्यमस्तीत्यर्थः परन्त्वितिशेषः, 'खल्वि'ति निश्चये, ये 'गृहस्था भवन्ति'-गृहिणो वर्तन्ते, 'ही'ति चरणपूत्तौं, 'प्राय:'-बहुधा, 'स्थूलधियः'-स्थूलबुद्धियुक्ताः , 2 'अतिचिन्ताः'-अधिकचिन्ताः, अधिकचिन्तायुक्ताः, 'आरम्भवन्तः'-आरम्भयुक्ताः, 'च' शब्दश्वरणपूत्तौं, 'परिग्रहादराः'-परिग्रहविपये दत्तादराः, 'वक्ष्मेक्षिकालोकनकुण्ठबुद्धयः'-सूक्ष्मदृष्ट्याऽवलोकने मन्दधियः, भवन्तीतिशेषः, तथा
१. अधिकचिन्ता. । २. दृष्टि । ३. वठर । ४. आलम्बनमाश्रय आधारो वेत्यायेकार्थाः । ५. साकारजिनप्रतिमायां साधुवेषे ' प्रतिलेखनाप्रमार्जनादानादिकर्तव्ये च द्रव्यधर्मत्रये ।
HORISATSHIRIQARISHISHIBIG