________________
मूलम्-इत्यादिका ये भगवद्गुणोघाः, शास्त्रेषु दृष्टा अथ तान्प्रकल्प्य ।
मुमुक्षवोऽभी अपि शक्तियोग्य-माहत्य सिद्धन्त्यपि ते क्रमेण ॥१७॥ टीका-फलितमाह-इत्यादिका इत्यादिना 'का'-एतत्प्रभृतयः, 'ये भगवद्गुणौघाः '-भगवद्गुणसमुदायाः, 'शास्त्रेषु', ' दृष्टाः '-प्रसिद्धाः सन्तीतिशेषः, 'अथे 'ति निश्चये, 'तान् '-गुणौधान्, 'प्रकल्प्य '-सम्मत्य, अवल. म्ब्येतिभावः, ' अमी'-पूर्वोक्ताः, ' मुमुक्षवः'-अनगाराः, अपि 'शक्तियोग्यं '-यथाशक्ति, 'तान्'-गुणौघानितिशेपः, 'आहत्य'-सत्कृत्य, ये तिष्ठन्तीतिशेषः, 'ते'-साधवोऽपि, ‘क्रमेण '-क्रमशः, 'सिद्ध्यन्ति '-सिद्धि प्राप्नुवन्ति ॥१७॥ मूलम्-येऽन्ये गृहस्थाः खलु ते स्वकीय-शक्त्या तथा देशत एतकान् गुणान् ।
दुष्कर्मशान्त्यर्थमनुश्रयन्तः, क्रमेण चैतेऽपि सुखीभवन्ति ॥१८॥ टीका-साधूनतिरिच्याऽन्येषां सिद्धगुणैः किं फलं भवतीत्याह-येऽन्य इत्यादि 'येऽन्ये '-भिन्नाः, साधुभ्यः पृथगित्यर्थः, 'गृहस्थाः'-गृहिणः सन्तीतिशेषः, 'खल्वि' ति निश्चयेन, ' ते '-गृहस्थाः, 'दुष्कर्मशान्त्यर्थं '-निकृष्टानां कर्मणां शान्तये, ' स्वकीयशक्त्या'-आत्मसामर्थेन, 'तथे 'ति समुच्चये, 'देशतः '-देशद्वारा, एकदेशेनेत्यर्थः, 'एतकान्'-एतान् पूर्वोक्तान्, 'गुणान् 'क्षान्त्यादीन् , पदेतिशेषः, 'अनुश्रयन्तः'-आश्रयमाणा भवन्तीतिशेषः, तदेति
१. अनगाराः । २. यथा सिद्धापेक्षया साधुपु देशतो गुणाः साध्वपेक्षया गृहस्थेपु देशतो गुणा, तत एतान् तपःप्रभृतिकान् गुणान् ।
REDIGHIRASHIRIAIS