________________
।
स्नेहाश्रयणादिभिः रहिता भवन्तीतिशेषः, 'च' शब्दः समुच्चये, यत इतिशेषः, 'ते'-सिद्धाः, 'निष्क्रियकाः'-क्रियारहिता भवन्तीतिशेषः, 'ततः'-तस्मात् कारणात् , 'अमी'-साधवः 'आरम्भसम्रम्भविलम्भरिक्ताः'-आरम्भाणां-कार्याणां संरभस्यप्रारम्भस्य यो विलम्भो विशेषप्राप्तिस्तेन रिक्ताः-शून्या भवन्तीतिशेपः, यत इति च शेपः, ' ते '-सिद्धाः, 'गतस्पृहाः '-18 स्पृहारहिता भवन्तीतिशेषः, 'अत:'-अस्मात् कारणात्, ' इमे '-साधवः, 'निराशाः '-आशारहिता भवन्ति, यत इति च | शेषः, 'ते'-सिद्धाः, 'अस्पर्धकाः '-स्पर्धारहिता भवन्तीतिशेषः, 'तत् '-तस्मात् कारणात् , ' अमी'-साधवः, 'तु' | शद्रश्चरणपूत्तौं, 'परैः'-अन्यैः सह, ' वादविवादैः रहिताः'-वादविवादेन शून्या भवन्तीतिशेषः, 'अथे' त्यनन्तरे, ' तथा चे 'ति समुच्चये, यत इति शेषः, 'ते-सिद्धाः, ' निबंधनाः '-बंधनरहिता भवन्तीनिशेषः, 'तत्'-तस्मात् कारणात् , 'इमे'-साधवः, 'सदैवक्लप्तस्वेच्छाविहारा'-सर्वदैव स्वेच्छया विहारकर्तारो भवन्तीतिशेपः, ' अथे 'ति समुच्चये, 'अपि । शब्दश्चरणपूत्तौं, 'ते'-सिद्धाः, 'निःसन्धयः-सन्धिरहिता भवन्तीति शेषः, 'अमी'-साधवः, 'तु' शब्दश्चरणपूर्ती, 'परस्परोस्थसंख्याविरक्ता'-अन्योऽन्यमैच्याद्विरतो भवन्तीति शेषः, 'अथेति समुच्चये, 'ते'-सिद्धाः, 'केवलो(ली)क्षा सन्ति'-केवल-10 दर्शिनो भवन्ति, 'अमी'-साधवः, ' सर्वजगत्स्वभावानित्यत्वदर्शाः'-सर्वलोकात्मीयसत्ताऽनित्यतादर्शिनो भवन्तीतिशेपः, 7 'पुनरेवेति समुच्चये, 'तु' शब्दश्चरणपूत्तौं, यत इतिशेषः, 'ते'-सिद्धाः, 'आनन्दपूर्णाः '-मोदयुक्ताः, भवन्तीतिशेपः, 1 'तत् '-तस्मात् कारणात् , ' इमे'-साधवः, 'सदान्तरा:'-सच्छेष्ठमान्तरमन्तःकरणभावो येषां ते तथा शुद्धभावा इत्यर्थः, है तथेतिशेषः, 'सन्तोपपोषात् '-संतोषप्राप्तेः, 'समभावभाविन:'-समभावेन वर्त्तन्ते, भवन्तीति शेषः ॥ ११-१६ ॥
-
१९