________________
सन्धिवर्जिता इति ' - बन्धनं मानसं वाचिकं कायिकं च यथेदं तवाहं करिष्य इति त्रिकरणेनापि मुक्ताः सन्धानं - सन्धि अमाननशीलानां भवद्भिरहं मान्य इति सन्धिः - संश्लेषः, सोऽपि त्रिकरणाश्रितस्तेन मुक्ता इत्यर्थः, 'सत्केवलेत्यादि ' - सत्श्रेष्ठ केवलज्ञानं तस्य निधानं-निधिस्तेन बन्धुरा - युक्ता तथेति शेषः, 'निरन्तरेत्यादि ' - निरन्तरः - शाश्वतो य आनन्दः स एव सुधाऽमृतः तस्य रसः - स्वादस्तेनाञ्चिताः - युक्ताः सन्तीति शेषः, 'अतः ' - अस्मात् कारणात्, 'तदुत्पन्नगुणानुगामिभिः ' - तेषां - सिद्धानामुत्पन्ना ये गुणाः क्षान्त्यादयस्तेषामनुगामिभिः - अनुयायिभिः, 'महानुभावैः' - महाशयैः, 'मुनिभिः' - साधुभिः, 'तदवाप्तिकाङ्क्षया ' - सिद्धत्वप्राप्तीच्छया, 'आत्मानुरूपशक्त्या ' - स्वशक्त्यनुसारेण, 'तेषां ' - सिद्धानां, 'गुणानां ' - क्षान्त्यादीनां, ' अनुयानं विधीयते ' - अनुसरणं क्रियते ॥ ७-९ ॥
मूलम् - यद्यप्यमीषां न गुणान्समस्तान्, पूर्णानिमे सेवितुमत्र शक्ताः ।
तथाप्यमी साधव आत्मयोग्यं, श्रित्वा बलं सिद्धगुणान् श्रयन्ति ॥ १० ॥
टीका - सिद्धगुणासेवनशक्ति विषयमाह - यद्यपीत्यादिना ' अत्र ' - अस्मिन् संसारे, यद्यपि ' अमीषां ' - सिद्धानाम्, 'पूर्णान् ' - सम्पूर्णान्, पूर्णतयेति भावः, ' समस्तान् - सर्वान्, 'गुणान् ' - क्षांत्यादीन्, 'सेवितुम् ' - भक्तुम्, ' इमे - मुनयः, ' न शक्ताः ' - न समर्थाः सन्तीति शेषः, ' तथापि ' - तदपि, ' अमी ' - पूर्वोक्ताः, 'साधव: ' - मुनयः, ' आत्मयोग्यं बलं श्रित्वा ' - स्वानुरूपां शक्तिमाश्रित्य ' सिद्धगुणान् ' - सिद्धानां क्षान्त्यादीन् गुणान्, ' श्रयन्ति ' - भजन्ते ॥ १० ॥