________________
निरजना निष्क्रियका गतस्पृहाः, अस्पर्धका बन्धनसन्धिवर्जिताः। सत्केवलज्ञाननिधानबन्धुरा, निरन्तरानन्दसुधारसाञ्चिताः ॥८॥ अतस्तदुत्पन्नगुणानुगामिभि-महानुभावैर्मुनिभिर्विधीयते ।
तेषां गुणानामनुयानात्मा-नुरूपशक्त्या तंदवाप्तिकाङ्क्षया ॥९॥ टीका-सिद्धानामुक्तगुणशालित्वेनाऽन्येषां किं फलम् ? इति दर्शयितुमाह-तत्सेवकेत्यादि 'तत्सेवकेनापि'-स्वामिसेवकेनाऽपि जनेनेति शेषः, 'तदीयशीलविधायिना भाव्यम् '-स्वामिसम्बन्धिशीलानुवर्तिना भवितव्यम् , ' इति'-एतत् लोक इति शेषः, 'प्रतीतं'-प्रसिद्धमस्तीति शेषः, तर्हि सिद्धसेवकैः किं कर्त्तव्यम् ? इत्याह-तथा चेत्यादिना 'तथा चेति-तथाहीत्यर्थः, ' यत्'-यस्मात् कारणात् , ' सिद्धाः'-सिद्धिं गताः, ' अमूर्तरूपाः'-मूर्तिविरहिताः, 'गताशनाः '-निराहाराः 'नीरुषाः'-गतद्वेषाः, 'वीतरागाः'-नीरागाः, 'निरजनाः'-अव्यक्ताः, निर्लेपा इति भावः 'निष्क्रियकाः'-क्रियारहिता, गतारम्भा इति भावः, 'गतस्पृहाः '-इच्छारहिता, नि:स्पृहा इति भावः, ' अस्पर्धकाः'-स्पर्धारहिताः, 'बन्धन
१. गतारम्भाः । २. बन्धनं मानसं वाचिकं कायिकं च यथेदं तवाऽहं करिष्य इति त्रिकरणेनाऽपि मुक्ताः सन्धान सन्धिः अमाननशीलानां भवद्भिरह मान्य इति सन्धिः संश्लेषः सोऽपि त्रिकरणाश्रितस्तेन मुक्ताः । ३. पूर्णाः । ४. साधुभिः। ५. अनुसरणं । ६ सिद्धत्वं ।