________________
Bong RARE
ऽवस्थितपदार्थराशिप्रकाशनशीलत्वम्, 'अस्वामिसेवित्वं '-स्वामिसेवाराहित्यम् , संसारसम्बन्धेनाऽयं मम स्वामी अहं चाऽस्य सेवक इति भावाभाव इत्यर्थः, 'अतीवसवता'-अत्यन्तं सतो गुणशालित्वम् , 'निर्भीकता'-भयराहित्यम् ,
'अल्पाशनता'-अल्पभोजित्वं, 'विशिष्टता'-वैशिष्ट्यम् , सर्वोत्कृष्टमिति भावः, 'संसारसम्बन्धजुगुप्सतादयः'-सम्बन्धे र गर्हणताप्रभृतयः, 'ईदृशाः' इत्थं प्रकाराः, ये 'अत्र'-मुमुक्षुषु, 'अभूवन्'-स्तोका गुणा आसन्, 'ते'-पूर्वोक्ता गुणाः,
'तु' शब्दो विशेषणार्थः, 'सिद्धिश्रितां '-सिद्धिं गतानां, मुमुक्षूणाम् , ' अनन्ता भवन्ति '-अन्तरहिता जायन्ते, अनन्तसङ्ख्याका भवन्तीत्यर्थः, कुत एतद्भवति ? इत्याह-क्षेत्रेत्यादिना क्षेत्रस्वभावादिति'-क्षेत्रस्य तथाविधस्वभाववशादित्यर्थः, ' अथे' ति समुच्चये, पक्षान्तरे वा, 'सिद्धभावात् '-सिद्धिप्राप्तिभावात् , ' यद्वा'-अथवा, 'शिवात् '-शिवप्राप्तिभावात् , कुत एतनिधीयते ? इत्याह-केवलीत्यादिना ' केवलिवाक्प्रमाणात् '-केवलज्ञानिनो वचोरूपप्रमाणेन एतन्निवीयत इति शेषः ॥ ४-६ ॥ मूलम्-तत्सेवकेनापि तदीयशील-विधायिना भाव्यमिति प्रतीतम् ।
तथा च सिद्धा यदमूर्तरूपा, गतासैना नीरुषवीतरागाः ॥७॥ १. लोके । २. मया सिद्धाः स्मर्त्तव्या यथाऽहमप्येतादृशोऽपुनर्भावो भवामीति विचिन्त्य सिद्धान्स्वामित्वेन सम्पाद्य स्वमात्मान च तत्सेवकतया प्रकल्प्य यदि तत्सेवामाचरति तदेशेन तेन भाव्यमित्याह । ३. निराहाराः। ४. गतद्वेषाः ।
RSA5643096