________________
RSSRASAGER
मूलम्-ये सत्यशीलक्षमतोपकारिता-सन्तोषनिर्दूषणवीतरागताः।
निःसङ्गता चाऽप्रतिबद्धचारिता-सज्ज्ञानितानिर्विकृतिप्रसन्नताः ॥४॥ सद्गोष्ठितानिश्चलताप्रकाशिता-अस्वामिसेवित्वमतीवसत्त्वता । निर्भीकताऽल्पाशनताविशिष्टता-संसारसम्बन्धजुगुप्सतादयः ॥५॥ अत्रेदशा अल्पगुणा अभूवन् , सिद्धिश्रितां ते तु भवन्त्यनन्ताः।
क्षेत्रस्वभावादथ सिद्धभावा-घद्वा शिवात्केवलिवाक्प्रमाणात् ॥६॥ टीका-सिद्धिप्रभावमाह-य इत्यादिना 'सत्येत्यादि '-सत्यम् , शीलम् , क्षमता-क्षान्तिः, उपकारिता-उपकारकर्तृत्वम् , सन्तोषः, निर्दूषणता-दूषणरहितत्वम्, वीतरागता चेत्यर्थः, 'निःसङ्गता '-सङ्गहानिः, 'च'-पुन:, 'अप्रतिबद्धचारिता'-अनुपरोधेन गमनागमनत्वम् , ' सज्ज्ञानिता'-श्रेष्ठज्ञानयुक्तत्वम् , 'निर्विकृति '-विकाररहितता, 'प्रसन्नता'-प्रसादः, 'सद्गोष्ठिता'-प्रशस्तकथालापकरणशीलत्वम् , 'निश्चलता'-चाञ्चल्यविरहः, ' प्रकाशिता'-यथा
१. पुनस्त्वं पश्य संसारे वसतां योगिनां ये सत्यशीलादयो लौकिका गुणा अल्पशोऽल्पशोऽभूवन ते सर्वेऽपि गुणा बीजभूताः सन्त एषां योगिनां सिद्धत्वेनावतीर्णानामनन्ताः सिद्धावस्थत्वयोग्या एते भवन्तीति तत्कुतः ? तत्र हेतूनाह । २ संसारसम्बन्धेनाऽयं मम स्वामी अहं चाऽस्य सेवी-सेवकस्तहि मया किञ्चित्कर्मकरेण इव भाव्यमिति भावाभावः सम्बन्धमनुभवत्येव । ३. अर्थात् मुमुक्षुषु । ४. सिद्धिं गतानां मुमुक्षणाम् ।
5