________________
OG HOROSHOORNSHISHIGIENIA
टीका-अस्योत्तरमाह-अहो इत्यादिना 'अहो' इत्यामन्त्रणे, त्वया साधु वचः समीहितं'-सुन्दरं वचनं कथितं, सुन्दरं वचो जल्पितमिति भावः, ' यत् '-इदं, 'ते मनः '-तव मानसं, 'धर्मश्रुतौ'-धर्मश्रवणे, 'अभूत्'-बभूव, धर्मश्रवणे समद्यतं जातमित्यर्थः, ' तर्हि '-तदा, 'एकाग्रचेतः'-एकाग्रचित्तपूर्वकम् , क्रियाविशेषणमेतत् , 'मद्वचः शृणु'-मम कथनमाकर्णय, 'यथा'-येन प्रकारेण, यद्धर्मश्रवणवशादित्यर्थः, ' सुधर्मे '-श्रेष्ठधर्म, तवाऽपि 'सुधीरस्तु'-शोभना बुद्धिर्भवेत् , येन श्रेष्ठधर्मे तवाऽपि मतिरुधुक्ता जायेतेति भावः ॥२॥ मूलम्-हिंसामृषादत्तंग्रहाङ्गनागमाः, परिग्रहश्चेति समे समन्ततः।।
विवर्जनीया यदिमान विवर्ण्य, सिद्धोऽभवच्छ्रीभगवान् प्रसिद्धः ॥ ३॥ टीका-साधनं दर्शयितुमाह-हिंसेत्यादि । हिंसा'-मनोवाकायेन प्राणिद्रोहा, ' मृषा'-असत्यम् , ' अदत्तग्रहःअदत्तपदार्थाऽऽदानम् , चौर्यमित्यर्थः, 'अङ्गनागमः'-स्त्रीसेवनम् , 'च'-पुनः, 'परिग्रहः'-पदार्थेषु मूर्छा, 'इत्येते' 'समे'सर्वे, 'समन्ततः'-सर्वतः, सर्वप्रकारेणेत्यर्थः, 'विवर्जनीयाः'-त्याज्याः , सन्तीति शेषः, 'यत्'–यसात् कारणात, 'इमान्'हिंसादीन्, 'विवयं '-त्यक्त्वा, ' प्रसिद्धः '-प्रख्यातः, 'श्रीभगवान् '-उत्तमैश्वर्यादियुक्तः, केवली, 'सिद्धोऽभवत्'-सिद्धिं गतो जाता, सिद्धि प्राप्त इति भावः ॥३॥
Mosk671OSOS ASOS0396
१. आदान ।
HOOG