________________
CHIARIISIGARISHISE
अथ षोडशोऽधिकारः। स्वर्गापवर्गयोः साधनानि यथाशक्ति सिद्धगुणसेवनेन सिद्धिभवनमेकोनविंशतिश्लोकैराहमूलम्-अथाऽऽस्तिकं नास्तिक आह शस्तधी-रस्त्वस्त्विदं स्वर्गपदादि निश्चितम् ।
परं किलैतस्य यदस्ति साधनं, तद् ब्रूहि मे साम्प्रतमादरेण ॥१॥ टीका-प्रसङ्गेन स्वर्गपदादिसाधनं दर्शयितुमाह-अथेत्यादि । अथे' ति अनन्तरे, ' नास्तिकः' आस्तिकमाह'आस्तिकम् प्रतिब्रूते, कथम्भूतो नास्तिकः ? 'शस्तधीः'-शस्ता-प्रशस्ता धी:-बुद्धिर्यस्य सः, तथा पूर्वोक्तविषयविज्ञानेन निर्मलबुद्धिकः सन्नित्यर्थः, 'यदि ' ति शेषः, 'इदं '-पूर्वोक्तं, 'स्वर्गपदादि '-स्वर्गस्थानादिकं, 'निश्चितम् '-निश्चयेन, ' अस्त्वस्तु'-भवतु, नाम सद्भावनायां द्विरुक्तिः, परं'-परन्तु, किले 'ति निश्चये, 'एतस्य'-स्वर्गपदादेः, ' यत्साधनमस्ति'-सिद्धिकारणं भवति तत्साधनम्, 'मे'-माम् प्रतीत्यर्थः, ' साम्प्रतम् '-अधुना, 'आदरेण '-आदरपूर्वकं, 'ब्रूहि '-कथय ॥१॥ मूलम्-अहो ! त्वया साधु वचः समीरितं, धर्मश्रुतौ ते यदभूदिदं मनः ।
एकांग्रचेतः शृणु तर्हि मनुचो, यथा तवाऽप्यस्तु सुधीः सुधर्मे ॥२॥ १. यथा स्यात्तथा । २. शोभना बुद्धिः ।
-
-
-
-
-