________________
मूलम्-तथाहि सिद्धाः परिभान्त्यमूर्ती, अमी तथा देहममत्वमुक्ताः।
अरूपिणस्ते तदिमे शरीर-संस्कारसत्कारनिकारकाराः ॥११॥ मुक्ताशनास्तेऽत इमे क्वचित्क्वचि-दाहारवर्जाः पुनरेव ते तु । विद्वेषमुक्ता इति सर्वसत्व-मैत्रीवहा एत इतीच रुच्याः ॥१२॥ ते वीतरागा इति बन्धुबन्ध-च्युता इमे ते तु निरञ्जनाख्याः । इमे ततः प्रीतिविलेपनायैः, शून्याश्च ते निष्क्रियकास्ततोऽमी ॥१३॥ आरम्भसंरम्भविलम्भरिक्ता, गतस्टहास्तेऽत इमे निराशाः। अस्पर्धकास्ते तदमी परैस्तु, वादैर्विवादरहितास्तथा च ॥१४॥ निर्वन्धनास्तेऽथ सदैवकलप्त-स्वेच्छाविहारास्तदिमेऽथ तेपि।
निःसन्धयोऽमी तु परस्परोत्थ-सयाद्विरक्ता अथ केवलेक्षाः ॥१५॥ १. किं किं विचिन्त्य सिद्धगुणाननुसरन्तीत्याह । २. अत्र प्रकरणे इदमदसूएतच्छब्दैः साधव एव सर्वत्र ग्राह्यास्तच्छब्देन तु प्रसिद्धास्ते सिद्धा एवादेयाः किं वारंवार लिखनेन । ३. निषेधकर्तारः । ४. पर्वणि । ५. विशेषेण लम्भा-प्राप्तिस्तया रिक्ता:-शून्याः । ६. मैत्र्यात् ।