________________
टीका-अस्योत्तरमाह-मैवमित्यादिना ' हे कोविद ! ' हे बुध !, नास्तिकं प्रत्युक्तिरियम् , ' मैवं वद इति'-एवं मा कथयेत्यर्थः, यत इति शेषः, शक्तीत्यादि 'शक्तिः' 'शम्भुः' 'गणेश' 'वीरः' इत्यादिकानां देवानां 'संहतिः'-समूहा, 'शैवाङ्गिमान्या' शैवप्राणिपूजनीया, शिवमतानुयायिप्राणिभिर्माननीयेत्यर्थः, 'अथे ' ति समुचये, ‘फिरस्तपेगम्बरपीरमुख्याः'-फिरस्तपेगम्बरपीरादयः, 'तुरुष्कपूज्याः'-यवनानां पूजनीयाः सन्तीतिभावः, ' तदीयसेवोत्थिततादृशेन फलेने' ति-तेषां सेवयोत्पन्नेन तादृशा फलेनेत्यर्थये इति शेपः, 'वेद्याः '-ज्ञातुम् योग्याः सन्तीतिशेषः, 'ही' ति चरणपूत्तौं, निश्चये वा, 'ते'-पूर्वोक्ता शत्यादयः, कि 'न सन्ति'-न विद्यन्ते, अपि तु विद्यन्त एवेति भावः, उक्तविषयमेव दृढयतिसन्तीत्यादिना 'चेत् '-यदि, 'ते'-शक्त्यादयः, 'सन्ति '-विद्यन्ते, ' ती 'ति शेषः, 'इति'-असात् कारणात् , सत्ता. कारणादित्यर्थः, ते इति शेषः, 'त्रिदशाः '-देवाः सन्तीति शेषः, 'माः '-मनुष्या न सन्तीति शेषा, तर्हि ते कथं न दृश्यन्त ? इति शङ्क परिहर्तुमाह-प्राय इत्यादिना 'प्राय:'-बहुधा, 'कलिकालयोगतः'-कलियुगसमयसम्बन्धात, कलियुगसमयभावादित्यर्थः, ते इति शेषः 'न दृश्या:'-न दर्शनीयाः सन्तीति शेषः, तेपामदृश्यत्व एव हेत्वन्तरमाह-दूरस्थेत्यादिना 'दूरस्थतयोग्यनिवासभूमेरिति '-तेषां शक्यादीनां देवानां योग्या या निवासभूमेर्दूरस्थितत्वकारणादित्यर्थः, 'मनुष्याःमानवाः, 'अगम्यतत्क्षेत्रपथाः '-तेषां क्षेत्रस्य मार्ग गन्तुमयोग्याः सन्तीति शेषः, 'परन्तु '-किन्तु, ' इदमीयसत्ता'-एषां शक्क्यादीनां देवानां सम्बन्धिनी सत्ताभावः, 'सिद्धास्तु '-सिद्धिं गता भवन्ति, 'परन्त्वि'ति शेषः, 'अत्र गते'-अत्र स्थितैः, 'मादृशैः'-मादृगजनैः, सा सत्तेति शेषः, 'नो प्रदर्या '-नैव प्रदर्शयितुम् योग्याऽस्तीति शेषः ॥ ७-९ ॥
RRRRRASSg