________________
मूलम् - सत्यं मुने ! तत्फलतोऽपि पृष्ठगं, लक्ष्मावसेयं हि भवेदवश्यम् ।
परन्तु न स्वर्गपरेतलोको, कयाsपि बोध्यौ ननु चेष्टयाsपि ॥ ६ ॥
टीका - नास्तिकः प्राह - सत्यमित्यादि ' हे मुने ! ' - हे मननशील !, 'सत्यमिति' - एतत्पूर्वोक्तं भवतः कथनं सत्यमस्तीत्यर्थः, 'परन्त्वि 'ति शेषः, 'ही 'ति निश्वये, चरणपूर्ती वा, 'पृष्ठगं लक्ष्म' - पृष्ठे स्थितं चिह्न, 'तत्फलतोऽपि ' - स्वफलद्वाराऽपि, ' अवश्यं ' - निश्चयेन, 'अवसेयं भवेत् ' - ज्ञातुं योग्यम् भवति, 'परन्तु ' - किन्तु, ' नन्वि 'ति निश्रये, वितर्के वा, 'स्वर्गपरेतलोकौ ' - स्वर्गनरकौ, ' कयापि '- कयाचित् ' चेष्टयाऽपि ' - चेष्टाद्वाराऽपि, 'न बोध्यौ ' - न ज्ञेयौ भवत इतिशेषः ॥ ६ ॥ मूलम् - मैवं वद कोविद ! शक्तिशम्भु - गणेशवीरादिकदेवसंहतिः ।
शैवाङ्गिमान्याऽथ तुरुष्कपूज्याः, फिरस्तपेगम्बरपीरमुख्याः ॥ ७ ॥ तदीयसेवोत्थिततादृशेन, फलेन वेद्या न हि सन्ति ते किम् ? |
सन्तीति चेत्ते त्रिदशा न मर्त्याः, प्रायो न दृश्याः कलिकालयोगतः ॥ ८ ॥ दूरस्थतद्योग्यनिवासभूमे - रगम्यतत्क्षेत्रपथा मनुष्याः ।
परन्तु सिद्धास्त्विदमीयसत्ता, नो माहशैरत्र गतैः प्रदर्श्या ॥ ९ ॥
-
१. एषामियमिदमीया सा चाऽसौ सत्ता च तथा देवसम्बन्धिनी सत्ता पतत्सिद्धौ हि सिद्धा एतद्विपरीतपापहेतुप्राप्या नरकगतिसत्तेति स्वयमूह्या ।
१८