________________
-
-
टीका-अत्र नास्तिकः शंकते विद्वन्नित्यादिना 'हे विद्वन् ! -विपश्चित !, 'यथा'-येन प्रकारेण, 'अस्य'-पूर्वोक्तस्य शृंगादेः, 'ईक्षकमानवाः '-दर्शकजनाः, 'ततः परे'-शृंगादियुक्तपुरुषाद् भिन्नाः, 'अनेके सन्ति'-बहवो वर्त्तन्ते, 'तथा'तेन प्रकारेण, 'स्वरीक्षकाः'-स्वर्गद्रष्टारः, 'घनाः'-प्रभूता न सन्ति, फलितमाह-तस्येत्यादिना 'तस्य'-गादेस्तु, 'अनिरीक्षकः '-अद्रष्टा, ' सकः'-सः, एकका, ' अङ्ख्येव'-शृंगादिचिह्नयुक्त एव भवति, 'तेन'-अंकिना, 'समं'-तुल्यं, 'उत्तरम्'-भिन्नम्, सामान्ये क्लीबत्वप्रयोगः, नास्ति यथांकी स्वांका द्रष्टाऽस्ति तथाऽन्यः कोऽप्यंका द्रष्टा नास्तीतिभावः॥४॥
मूलम्-युक्तं परं नास्तिकतो घना जनाः, सन्त्यास्तिका आप्तवचः प्रमाणकाः।
तत्मेत्यदर्शा निवसन्ति भूरिशो, लक्ष्मक्षवन्नास्तिकवत्तु लक्ष्मवान् ।। ५॥ टीका-उक्तशंकां परिहर्तुमाह-युक्तमित्यादिना ‘युक्तमिति '-एतत्तव कथनं युक्तमस्तीत्यर्थः, परं'-परन्तु, 'नास्तिकतः'-नास्तिकात् नास्तिकापेक्षयेत्यर्थः, 'आस्तिका जनाः' 'घनाः सन्ति'-प्रभूता विद्यन्ते, कथंभूताः ? "आमवचः प्रमाणकाः '-आप्तवचनं प्रमाणत्वेन मंतारः, 'तत्'-तस्मात् कारणात् , 'लक्ष्मेक्षवत् '- गादिचिहद्रष्टतुल्याः , 'प्रेत्यदर्शाः'-परभवद्रष्टारः, 'भूरिश:'-अनेके, 'निवसन्ति'-तिष्ठन्ति, वर्तन्त इत्यर्थः, 'नास्तिकवत् 'नास्तिकतुल्या, 'लक्ष्मवान्'-गाद्यंकयुक्तोऽस्ति ॥५॥
१ परभव । २. लक्ष्मेशा इव लक्ष्क्षवत् लक्ष्मदर्शका इव । यथा लक्ष्मवान् अड्डी स्वास्थमपि लक्ष्म न पश्यति तथा नास्तिकोऽपि स्वर्गादि न पश्यति इति समानमुत्तरम् ।