________________
टीका-उक्तविषयस्योदारणमाह-पुंसो यथेत्यादिना 'यथा'-येन प्रकारेण, 'कस्यचित्'-कस्यापि, 'पुंसः'-पुरुषस्य, | 'कन्धरापृष्ठस्थित:'-ग्रीवापृष्ठभागे स्थितः, 'वा'-अथवा, 'वंशकमध्यम:'-पृष्ठवंशे स्थितः, 'भुंगः-भ्रमरः, 'अथवा' यदवा । 'लक्ष्म-चिहनम् स्वस्तिकादीत्यर्थः, 'च'-पुनः, 'कालकादि'-तिलकादि, अस्ति, परन्तु 'स'-पूर्वोक्तः पुरुषः, 'निजैः खै'-18 स्वैरिद्रियैः, 'तत्'-पूर्वोक्तम् भ्रमरादिकम् , 'स्वयं-स्वतः, परोपदेशमंतरेणेत्यर्थः, 'न जानाति-न वेत्ति ॥ २ ॥ मूलम्-यदा तु मात्रादिनिजाप्तवृद्ध-स्तवाऽत्र भृङ्गादि निगयतेऽदः।
तदाऽपि तेनाऽप्यनुमन्यते तत्, परन्तु खैः स्वैर्न कदाचिदीक्ष्यम् ॥ ३॥ टीका-तर्हि कथं स भ्रमरादिकं वेत्तीत्याह-यदा वित्यादिना 'यदा'-यस्मिन् काले, ' मात्रादिनिजाप्तवृद्धैरिति '-10 जनन्यादिभिः स्वकीयैराप्तैद्धैः पुरुषैरित्यर्थः, 'अदः'-एतत् , 'निगद्यते '-कथ्यते, यत्तव 'अत्र'-अस्मिन्स्थले, 5 'भृगादि'-भ्रमरादिकमस्ति, ' तदापि ' तस्मिन्कालेऽपि, जनन्यादिमिराप्तवृद्धः कथनेऽपीत्यर्थः, 'तेन '-पूर्वोक्तेन जनेन, 'तत् '-शृंगादि अपि, ' अनुमन्यते '-अनुमानविषयं नीयते, अनुमानेन ज्ञायत इत्यर्थः, 'परन्तु '-किन्तु, 'स्वैः खैःनिजैरिंद्रियैः, 'तत्'-शृंगादि, 'कदाचित् '-कदापि, 'नेक्ष्यम्'-न दर्शनीयम् भवति ॥३॥
मूलम्-विद्वन् ! यथास्येक्षकमानवास्ततो-ऽनेके परे सन्ति तथा स्वरीक्षकाः।
घना न तस्य त्वनिरीक्षकः सको,-ऽङ्क्येवैककस्तेन समं न चोत्तरम् ॥ ४॥ १. स्वर्गे ।
-
-
-