________________
-
-
-
अथ पञ्चदशोऽधिकारः
अदृष्टस्वर्गादिप्रमाणतां द्वादशश्लोकेनाहमूलम्-पुनश्च यद्देहबहिःस्थवस्तु, दृश्यं तदेवाङ्गिभिरीक्ष्यतेऽक्षः। : ग्राह्यं तु यन्नास्ति न गृह्यते तत्, परोक्तिशक्त्या तदपीह मन्यते॥१॥ टीका-नास्तिकमतपरिहारसैद्धान्तिकविषयपुष्टिसंबंध एवाऽवशिष्टविषयमाह-पुनश्चेत्यादिना 'पुनश्चेति अन्यच्च श्रूयतामित्यर्थः, ' यत् देहबहिःस्थवस्तु'-शरीरबाह्ये स्थितं वस्तु, ' दृश्यं '-दर्शनीयमस्ति, ' तदेव '-वस्तु, ' अंगिमिः'4 प्राणिभिः, ' अक्षैः' इन्द्रियैः, 'ईक्ष्यते '-अवलोक्यते, ' यत् '-वस्तु, इन्द्रियैः 'ग्राह्यं '-ग्रहीतुं योग्यम्, 'नास्ति'न विद्यते, 'तत् '-वस्तु, इन्द्रियैः 'न गृह्यते '-नादीयते, परन्तु ' इह '-अस्मिन्संसारे, 'तदपि '-पूर्वोक्तमपि वस्तु, परोक्तिशक्त्या '-परकथनसामर्थेन, परोपदेशेनेत्यर्थः, ' मन्यते'-ज्ञायते ॥१॥ मूलम्-पुंसो यथा कस्यचिदस्ति कन्धरा-पृष्ठस्थितो वंशकमध्यगो वा।
भृङ्गोऽथवा लक्ष्म च कालकादि, स्वयं न जानाति स तन्निजैः खैः ॥२॥ १. ग्रीवा । २. स्वस्तिकादि । ३ तिलकादि ।
-
-
५५
५
%
*