________________
कारस्य, ' जीवस्य ' - आत्मनः ये 'अनाकृतयः ' - आकाररहिताः, 'गुणाः सन्ति - ज्ञानादयो गुणा विद्यन्ते, ' ते 'पूर्वोक्ता अनाकृतयो गुणाः, न दृश्याः सन्ति ॥ ३२ ॥
मूलम् - इतीयता सिद्धमिदं यदत्र खै ग्राह्यं तदेव प्रतिगृह्यते तैः । अन्ययदाप्तैरुदितं तदेव, सत्यं नृणां खानि तु सर्वहंशि नो
॥ ३३ ॥
'अन्यम् ' - भिन्नम्,
टीका - फलितपूर्वं निगमनमाह - इतीयतेत्यादिना ' इतीयता ' - एतावता कथनेनेत्यर्थः, 'इदम् ' - एतत्, 'सिद्धम्' - सिद्धिमुपगतम् भवति, यत् ' अत्र ' - अस्मिन्संसारे, ' यत् ' - वस्तु, 'खैः - इंद्रियैः, ' ग्राह्यं' - ग्रहीतुम् योग्यमस्ति, 'तदेव' - वस्तु, 'तैः - इंद्रियैः, 'प्रतिगृहात ' - आदीयते, इंद्रियग्राद्यवस्तुभ्योऽन्यदितिभावः, ' यत् ' - वस्तु, ' आप्तैः ' - यथार्थवक्तृजनैः, ' उदितं ' -कथितम् ' तदेव ' - वस्तु, 'सत्यं ' -- यथार्थमस्ति, यतः 'तु' शब्दचरण पूर्त्ते, नॄणां ' - मनुष्याणाम्, 'खानि ' - इंद्रियाणि, ' सर्वदृशि ' - सकलवस्तुष्टुणि, 'नो 'नैव संति ॥ ३३ ॥
श्रीजैनतत्वसारे नास्तिकस्य प्रत्यक्षप्रमाणान्नोइन्द्रियावगमाघिक्योक्तिलेशः
चतुर्दशोऽधिकारः