________________
Rest
मूलम्-त्वं चेतसि स्वे परिभावयैवं, लङ्काऽस्ति वा नो ननु वर्तते सा।
त्वया मया सर्वजनैरपीय-माकर्ण्यते केन न मन्यते सा? ॥१०॥ दीका-उदाहरणान्तरमभिधातुकाम आह-त्वमित्यादिना ' त्वं ' 'स्वे चेतसि '-स्वकीये मानसे, ‘एवं'-वक्ष्यमाणम्, 'परिभावय '-विचारय, 'यदि 'ति शेषः, 'लकास्ति'-लका विद्यते, 'वा'-अथवा, 'नो'-नैवाऽस्तीतिशेषः, नास्तिक आह-नन्वित्यादि ' नन्वि' ति वितर्के, 'सा'-लका, 'वर्तते '-विद्यते, अत्र हेतुमाह-त्वयेत्यादिना ' त्वया'भवता, 'मया' 'सर्वजनैरपि '-अन्यैरपि सर्वजनैः, ' इयं '-लका, 'आकर्ण्यते '-श्रूयते, ती ' ति शेषः, सा लङ्का 'केन'-जनेनेति शेषः, ' न मन्यते '-न स्वीक्रियते, अपि तु त्वया मयाऽन्यैश्च सर्वैरपि जनैर्मन्यत एवेति भावः ॥१०॥
मूलम्-एवं तदा चेत्त्वमिह स्थितः सन् , लकां पुरी तां मम दर्शयात्र।
- श्रुत्वेति सोऽभाषत नास्तिकाख्या, इहस्थितैः कैननु दयते सा ॥११॥ टीका-अत्राऽऽस्तिक आह-एवमित्यादि ' चेत् '-यदि, 'एवम्'-इत्थम् , अस्तीति शेषः, 'तदा'-तर्हि, 'इह'-अत्र, 'स्थितः सन् '-स्थितिं कुर्वन् सन् , त्वं 'ता'-पूर्वोक्तां, 'लकां पुरीम्'-लकानगरीम्, 'मम'-माम् , ' अत्र'-अस्मिन् स्थले, अत्र स्थितं मामित्यर्थः, 'दर्शय'-दर्शनं प्रापय, 'इति'-एतत् , 'श्रुत्वा'-निशम्य, 'सः'-पूर्वोक्तः, 'नास्तिकाख्यः'नास्तिकनामकः, 'अभापत'-अब्रवीत् , ' नन्वि' ति वितर्के, ' इहस्थितैः'-अत्राऽवस्थितैः, 'कैः'-जनैरिति शेषः, 'सा'लङ्का, 'दर्यते '-अत्रस्थिताः के लवां दर्शयितुम् शक्नुवन्ति ? इति भावः ॥ ११॥