________________
आगमः '-मन्त्राम्नायः, ' साधनम् ' - सिद्धिविधिः, 'रसायनं ' - धातुवर्द्धनादिविधिः, 'व्याकरणादिविद्याः' - व्याकरणप्रभृतिका विद्या:, ' चरित्रं ' - वृत्तम् ' वृत्ति: ' - वर्त्तनम् ' परदेशवार्त्ता' - स्थितं वार्त्ताम्, 'एतान्' - सर्वान्, 'स्वादिंद्रियात्'स्वकीयेंद्रियद्वारा, 'न वेत्ति' - न जानाति, किन्तु 'च' 'शब्दचरणपूत्तौ,' 'अन्यतः ' - अपरद्वारा, परस्योपदेशत इतिभावो वेत्ति ॥२६॥ मूलम् - हेतोरतः सुष्ठु विधाय चित्तं विचारयेदं स्वविकल्पमुक्तः ।
ग्राह्यं यदेवाऽस्ति नृणां निजैः खै - स्तदेव गृह्णन्ति हि तानि खानि ॥ २७ ॥ टीका - अत्रैव पुष्टिमाह - हेतोरित्यादिना ' अतो हेतोः ' - अस्मात् कारणात्, 'चित्तं ' - मनः, ' सुष्ठु विधाय ' - स्वस्थं कृत्वा, ' विकल्पमुक्तः ' - स्वतर्करहितः सन् त्वम्, 'इदम् ' - वक्ष्यमाणम्, 'विचारय ' - चिन्तय, यत् निजैः 'खैः 'इंद्रियैः, ' नृणाम् ' - मनुष्याणाम्, ' यत् ' - वस्तु, ' एवं ' शब्दचरणपूत, ' ग्राह्यमस्ति ' - आदेयमस्ति ' ही 'ति निश्वये, तानि ' खानि ' - इंद्रियाणि, ' तदेव ' - वस्तु, ' गृह्णन्ति ' - आददते ॥ २७ ॥
मूलम् - ज्ञानं परोक्षं हि यदिन्द्रियाणां तज्ज्ञायते मङ्क्षु परोपदेशात् ।
शस्तं तथाऽशस्तमिदं समस्तं विस्तारसंक्षेपत ईक्ष्यतेऽन्यतः ॥ २८॥
-
टीका - एतदेव स्पष्टयति - ज्ञानमित्यादिना ' ही 'ति निश्वये, चरणपूर्त्तो वा, ' यत् ' - ज्ञानम्, 'इन्द्रियाणाम् ' - श्रोत्रादीनां, ' परोक्षम् ' - अप्रत्यक्षमस्ति, 'तत्' - ज्ञानम्, 'परोपदेशात् ' - अन्यस्योपदेशेन, 'मङ्क्षु' - द्रुतं, ' ज्ञायते ' - अवबुध्यते, फलितमाह - शस्तमित्यादिना ' शस्तं ' - प्रशंसनीयं, यथार्थमिति यावत्, 'तथे 'ति समुच्चये, 'अशस्तम् ' - अप्रशंसनी