________________
-
-
इति यावत् , आस्ताम् न्यूनेन्द्रियो अपटुसकलेन्द्रियो वेत्त्यपि शब्दार्थः, 'अन्यः'-नैमित्तिकादिभिन्नः, 'अखिलः'-समस्तः, 4 'जनः'-मनुष्यः, न वेत्ति, “ अतः'-उक्ताद् हेतोः, 'अक्षतः' इन्द्रियात्, इन्द्रियजन्याद् बोधादित्यर्थः, 'अपरः'मिना, कोऽपि 'बोधः '-ज्ञानमस्ति, 'त्व'-त्वं प्रच्छकः, 'विद्धि'-जानीहि ॥ २२-२४ ॥
मूलम्-एवं परोक्षार्थमिमं समस्तं, ज्ञानी विजानाति न सर्वलोकः ।
प्रायस्त्विदं वेत्ति परोपदेशा-जनः स्वतो नेन्द्रियकेषु सत्सु ॥ २५ ॥ टीका-उक्तविषयमेव दृढयति-एवमित्यादिना ' एवम् '-अनया रीत्या, 'इमं'-पूर्वोक्तं, 'समस्तं'-सर्व, 'परोक्षार्थ,'परोक्षवर्तिपदार्थ, ' ज्ञानी'-ज्ञानयुक्तो, 'विजानाति '-वेत्ति, 'न सर्वलोकः' इति-सर्वो जनो न वेत्तीतिभावः, तर्हि सर्वो जनः कथं ज्ञातुम् शक्नोतीत्याह-प्राय इत्यादिना 'प्रायः'-बहुधा, 'तु' शब्दश्चरणपूत्तौं, 'जन:'-अपरो मनुष्यः, 'इदं '-वक्ष्यमाणम्, 'परोपदेशात् '-परस्योपदेशेन, 'वेत्ति'-जानाति, 'इन्द्रियकेषु सत्सु'-श्रोत्रादींद्रियेषु विद्यमानेष्वपि, 'स्वतः'-स्वयम् , परोपदेशमंतरेणैवेत्यर्थो न वेत्ति ॥ २५ ॥ मूलम्-आचारशिक्षार्गमसाधनानि, रसायनं व्याकरणादिविद्याः।
चरित्रवृत्ती परदेशवार्ता, स्वादिन्द्रियाद्वेत्ति न किन्तु चाऽन्यतः ॥ २६ ॥ टीका-यत्परोपदेशेन वेत्ति न स्वतस्तत् किमस्तीत्याह-आचारेत्यादिना 'आचारः'-व्यवहार, 'शिक्षा'-शिक्षणम्, १. मन्त्राम्नाय । २. देवानाम् ।
5155155555575
-
-
--
-
-
-
-