________________
ॐॐॐAS25ॐॐॐॐ
प्रसिद्धो देशकालादिव्यवहितार्थविषयकप्रश्नानां यथार्थोत्तरनिरूपणपरो ग्रन्थचूडामणिशास्त्रं तत् सम्यग् वेत्ति यः सः, 'व्यतीतं'-भूवकालविषयं, ' सकलं '-सवं, 'पृष्टं '-प्रश्नं, 'तु'-अन्यार्थव्यवच्छेदेन, 'ब्रवीति'-व्याकरोति, 'तथे 'ति देहलीदीपकन्यायेनावाऽपि संबध्यते, 'निदानवैद्यः'-रोगकारणज्ञाता, चिकित्सकः, 'अखिलानां'-वात-पिचादि-धातुवैषम्यप्रभवाणां सर्वासाम् , 'रुजाम्'-आतुरशरीरोत्पन्नविकारभूतानाम् रोगाणाम् , ' निदानं '-रोगोत्पादकं मूलं, 'आशु'अविलम्वेन, 'निवेदयति'-स्वयं विदित्वा रोगिभ्यो ज्ञापयति, 'अन्यलोक:'-चूडामणिशास्त्राऽनभिज्ञश्चिकित्साशास्त्रात्युत्पन्नश्च जनः, न च यथाक्रम अतीतविषयं प्रश्नं रुग्निदानं च ज्ञातुम् ज्ञापयितुं च समर्थों न भवतीतिभावः, पुनरप्युक्तार्थ दृढयितुमाह-' अथ '-इत्युक्तसमुच्चये, 'यथा' 'परीक्षक:'-सत्यासत्यविवेचकः, 'नाणकस्य ' रूप्यकादेः, ' परीक्षां वेत्ति'कूटाकूटविभागं जानाति, 'न परः'-परीक्षकातिरिक्तो जनस्तथा वेत्तुं शक्नोति, यथा ' पदज्ञः'-पादचिह्नज्ञाता, 'पगी' इति भाषायाम् , 'पदं'-पलायितस्य चौरादेः पादचिह्न, 'च' शब्दः समुच्चये, 'यथा' इत्यत्रापि संबध्यते, 'तज्ज्ञः'-शकुनशास्त्रज्ञाता, 'शकुन-भविष्यच्छुभाशुभसूचकं खगरुतादि, 'विजानाति'-वेत्ति, 'तद्वत्'-पदज्ञ-शकुनज्ञाविव, 'पद:-तद्भिन्नो नरः, 'न'नैव विजानातीभावः, प्रक्रममिमतमुपसंहरनाह-'नैमित्तिकमुख्यलोकः'-निमित्तशास्त्रं वेत्तीति नैमित्तिकः स मुख्य आदिर्यस्य प्रश्न-वैद्य-परीक्षक-पदज्ञादेः स तादृशो लोकः-जन:, 'अत्र'-जगति, 'यथैव'-उक्तप्रकारेण ग्रहोपराग-प्रश्न-निदानादि, 'तत् '-देशकालादिव्यवहितमत एवातीन्द्रियं वस्तु, 'वेत्ति'-जानाति, 'तद्वत् '-तथा, 'सर्वेन्द्रियः'-सर्वाणि परिपूर्णानि त्वम्-रसना-घ्राण-नेत्र-श्रोत्राणीन्द्रियाणि यथाक्रमं स्पर्श-रस-गन्ध-रूप-शब्द-ज्ञानसाधनानि यस्य सः, पटुसकलेन्द्रिय
EOSISESEOROLOSSOS