________________
टीका-एतदेवोदाहरणेन दृढयति-त्वं पश्येत्यादिना त्वम् ‘पश्य'-विचारयत, यत् 'लोकेऽपि'-संसारेऽपि, 'अन्यैजनैः'इतरपुरुषः, यत् '-वस्तु, 'न ज्ञायते'-नावबुध्यते, 'च' शब्दश्वरणपूर्ती, 'तत्'-वस्तु, 'किले 'ति निश्चयेन, 19 'यत् '-ज्ञाना, 'अलम् -पर्याप्तत्वेन, 'दृश्यते'-ज्ञायते, उदाहरणमाह-नैमित्तिकैरित्यादिना ' यथा'-येन प्रकारेण, 'उपरागः'-ग्रहणम् , ' ग्रहोदयः '-सूर्यादीनामुदयः, 'गर्भधनागमादि'-मेघवृष्ट्यादिकम् , 'नैमित्तिकैरेव '-निमित्तशास्त्रज्ञाभिरेव, ज्ञायते नवाऽपरैर्ज्ञायते ॥२१॥
मूलम्-तथा व्यतीतं सकलं ब्रवीति, पृष्टं तु चूडामणिशास्त्रवेदी।
निदानवैद्योऽखिलरुग्निदानं, निवेदयत्याशु न चाऽन्यलोकः ॥ २२ ॥ परीक्षको वेत्त्यथ नाणकस्य, यथा परीक्षां न परो मनुष्यः। पदं पदज्ञः शकुनं च तज्ज्ञो, यथा विजानाति परो न तद्वत् ॥ २३ ॥ अतस्त्वकं विद्धि जनोऽखिलोऽन्यः, सर्वेन्द्रियोऽप्यत्र न वेत्ति तवत् ।
यथैव नैमित्तिकमुख्यलोक-स्तदक्षतः कोऽप्यपरोऽस्ति बोधः ॥ २४ ॥ टीका*--उदाहरणांतराभिधातुकाम आह-तथेत्यादि 'तथा'-उक्तरीत्या, 'चूडामणिशास्त्रवेदी'-अर्हच्चूडामणिनाम्ना १. त्वं । २. इन्द्रियेभ्यः । ३. शानम् । अस्य श्लोकत्रयस्य टीका लिखितहस्तादर्श नोपलभ्यते, इत्यतोऽभ्यासिनाम् सुखेनेतदर्थावगमाय साऽत्र मया संभ्य निवेशिता-पण्डित हरगोविन्ददासः।