________________
-
-
ॐॐॐॐॐॐॐॐॐ25
यम्, अयथार्थमिति यावत् ' इदं '-पूर्वोक्तं, 'समस्तं -सर्वम् ज्ञानम् , ' विस्तारसंक्षेपतः '-विस्तारेण संक्षेपेण च, | 'अन्यतः'-अन्यस्मात् , अन्यस्योपदेशेनेतिभावः, 'ईक्ष्यते '-दृश्यते, ज्ञायत इत्यर्थः ॥ २८॥ मूलम्-यथान्त्रंशुक्र कफपित्तवात-नाडीभ्रमं गुल्मयकृन्मलाशयाः।
गण्डोलतापाधिकतप्तिवालकाः, कपालरोगा गलरोगविद्रधी ॥ २९ ॥ इत्यादिकं यत्तनुमध्यवस्तु, सामान्यमत्यैर्निजकेन्द्रियैः स्वयम् ।
न ज्ञायते किन्तु परोक्तिश्रुत्या, ज्ञेयं तदस्य प्रशमात्स्वसत्ता ॥ ३० ॥ टीका-अस्योदाहरणान्यभिधातुकाम आह-यथेत्यादि ' यथा'-येन प्रकारेण, ' अन्त्रशुक्रमिति अत्राश्रितं हानिवृद्ध्यादिकं, वीर्याश्रितं हानिवृद्ध्यादिकं चेत्यर्थः, 'कफेत्यादि'-कफः पित्तम् वातो नाडीभ्रमश्चेत्यर्थः, 'गुल्मेत्यादि'-गुल्मरोगो यकृद्रोगो गलाशयरोगथेत्यर्थः, ' गण्डोलेत्यादि '-गंडोला:-कृमयः कृमिरोग इत्यर्थः, 'तापाधिकं '-ज्वरस्याऽऽधिक्यम् , 'तप्तिः'-उष्णता, यद्वा तापस्याऽधिकतप्तिरिति वेद्यम् , 'वालक-चालानामको रोगश्चेत्यर्थः, 'इत्यादिकम्'-एतत्प्रभृतिक, 'यत्तनुमध्यवस्तु'--शरीरमध्यस्थितं वस्तु, अस्ति, तत् 'सामान्यमत्यः'-साधारणमनुष्यैः, 'निजकेंद्रियैः'-स्वकीयेंद्रियः, ' स्वयं'-स्वत एव, परोपदेशमंतरेणैवेत्यर्थः, ' न ज्ञायते'-नावबुध्यते, किन्तु ' परोक्तिश्रुत्या'-परकथनश्रवणेन,
१. अन्त्राश्रितं हानिवृद्धयादिकं । वीर्याश्रितं हानिवृद्धयादिकं । २. अप्यन्प्रादिविद्रधिपर्यन्तरोगगणस्य औपचादिनोपशमात् शान्तितः सत्ता रोगोत्पत्तिशानं भवेत् ॥
-
-
-
-
-
SECSSSSS