________________
-
-
1525152515255ॐॐॐ
तद्वियते यन्ननु सत्पदेन, वाच्यं भवेद् वस्तु तदत्र किं स्यात् ।।
यच्छब्दजातं गदितं पुरैव, तथा पुनः किंचिदनुच्यतेऽत्र ॥३॥ ___टीका-किं तहीत्यादि नास्तिकः 'निजगाद'-उवाच, उक्तकथने सति नास्तिको ब्रूत इत्यर्थः, कथं किं ब्रूत ? इत्याह-किं तहीत्यादिना यत् ' तर्हि '-तदा, किं' 'सत्यम् '-यथार्थमस्ति, यदि ममोक्तं सत्यं नास्ति तर्हि किं सत्य- | मस्तीतिभावः, 'आस्तिका ' 'शुद्धम् '-विगतदोपम्, शुद्धभावेनेत्यर्थः, ' तदुत्तरं '-ममोक्तकथनस्योचरं, ' यच्छतु'ददातु, अस्योत्तरमाह-यदेकेत्यादिना 'एकशब्देने 'ति-एकपदेनेत्यर्थः, 'निगद्यमानम् '-कथ्यमानम्, वाच्यमितिभावः, यत् अस्ति तत् 'प्रवीणाः '-चतुराः, 'सत्पदमिति प्राहुरिति '-सत्पदेतिनाम्ना कथयन्तीत्यर्थः, 'नन्वि 'ति निश्चयेन, ' यत् '-वस्तु, ' सत्पदेन वाच्यं भवेदिति '-सत्पदेन कथनीयमस्तीत्यर्थः, 'तत् '-वस्तु, ' विद्यते'-वर्त्तत एव, नास्तिक आह-' तदत्र किं स्यादिति '-सत्पदवाच्यं वस्त्वत्र किं विद्यत इत्यर्थः, आस्तिकः प्राह-यच्छब्देत्यादि । यच्छब्दजातं'यः शब्दसमूहः, 'पुरैव'-पूर्वमेव, 'गदितं'-कथितं मया, तत्सत्पदवाच्यमस्ति, तथा पुनरिति-अन्यच्चेत्यर्थः, 'किंचित्'किमपि, सत्पदवाच्यम् , ' अत्र'-अस्मिन्स्थले, ' अनुच्यते '-पुनः कथ्यते ॥ २-३॥ मूलम्-कालः स्वभावो नियतिः पुराकृतं, तथोद्यमा प्राणमनोऽसुमन्तः ।
आकाशसंसारविचारधर्मा,-धर्माधिमोक्षा नरकोप्रलोको ॥४॥