________________
अथ चतुर्दशोधिकारः।
--- -- परोक्षप्रमाणमपि मन्तव्यमष्टादशश्लोकः कथयतिमूलम्-अतो य एतन्मनुते वदावदः, प्रत्यक्षमेकं हि मम प्रमाणम् ।
तचिन्त्यमानं न विवेकचक्षुषाम् , शक्तं भवेत्सर्वपदार्थसिद्ध्यै ॥१॥ टीका-पूर्वोक्तनास्तिकमतविषय एवाऽवशिष्टमाह-अतो य इत्यादिना 'अतः'-अस्मात् कारणात्, 'या' 'वदावदः'| वाचालः, नास्तिक इत्यर्थः, 'एतत् '-वक्ष्यमाणं, 'मनुते'-मन्यते, सिद्धान्तत्वेनोरीकरोतीत्यर्थः, यत् 'ही'ति चरणपूर्ती, निश्चये वा, मम मते ' एकम् '-अद्वितीयं, 'प्रत्यक्ष प्रमाणम्'-प्रत्यक्षनामकं प्रमाणमस्ति, 'तत्'-पूर्वोक्तं कथनं, 'विवेक
चक्षुषां '-विवेकदृष्टीनाम् , तत्त्वदृशामितिभावः, 'चिन्त्यमानं '-विचार्यमाणं सत्, 'सर्वपदार्थसिद्ध्यै'-सकलवस्तुसिद्धये, जी शक्तं न भवेत् '-समर्थ भवितुम् न शक्नोति ॥१॥
मूलम्-किं तर्हि सत्यं निजगाद नास्तिक-स्तदुत्तरं यच्छतु शुद्धमास्तिकः ।
यदेकशब्देन निगद्यमानं, तत्सत्पदं प्राहुरिति प्रवीणाः ॥२॥