________________
HTRSS RSS
विधिनिषेधः परमाणुपुद्गला, कर्माणि सिद्धाः परमेश्वरस्तथा । इत्यादिशब्देषु न चेष्टयापि, केचित्सुधीभिः प्रतिपादनीयाः ॥५॥ किन्त्वेकतः सत्पदतः प्ररूपयाः, तथैककर्णेन्द्रियग्राह्यवर्णाः।
स्वस्वस्वभावोत्थिततत्तथाविध-फलानुमेयाः किल केवलीक्ष्याः ॥ ६॥ टीका-सत्पदवाच्यमन्यद् वक्तुकाम आह-काल इत्यादि कालः '-समयः, स्वभावः'-आत्मीया सत्ता, 'नियतिः'-नियमः, 'पुराकृतं'-पूर्व विहितं कर्म, 'तथेति समुच्चये, ' उद्यमः -पुरुषकारः, 'प्राणः 'हृदयस्थो वायुः, शक्तिः, गंधो रसो वा यद्वा प्राणा:-असवः, ' मनः'-चित्तम्, 'असुमन्तः'-आत्माना, 'आकाशं'-नमः, 'संसार'लोका, तनुचेतनात्मकं जगदिति यावत् , ' विचार:'-परामर्शः, 'धर्मः'-पुण्यम् , 'अधर्म:'-पापम् , 'आधि:'-मानसी व्यथा, 'मोक्षः '-मुक्तिः, ' नरकं'-श्वभ्रम् , 'ऊलोक:'-ऊर्ध्वस्थायी लोकः, 'विधिः'-शास्त्रोक्तविधानम्, 'निषेध:'निवर्तनम्, 'परमाणुपुद्गल इति'-अणवः शरीरं चेत्यर्थः, 'कर्माणि '-कार्याणि, 'सिद्धाः'-सिद्धिं गताः, 'तथे ति समुच्चये, 'परमेश्वरः '-ईश्वरः, ' इत्यादिशब्देषु'-एतत्प्रभृतिषु शब्देषु, 'केचित् '-केऽपि शब्दाः, 'सुधीभिः'-पण्डितैः, 'चेष्टयाऽपि' चेष्टाद्वारापि, 'न प्रतिपादनीयाः'-न कथनीयाः सन्ति, तर्हि कुतः प्ररूप्यास्ते ? इत्याह-कित्वेकत इत्या
दिना किंतु 'एकतः '-सत्पदत इति, एकेन सत्पदेनेत्यर्थः, 'प्ररूप्याः '-प्ररूपयितुं योग्याः, ते शब्दाः सन्ति, पुनः । कथंभूताः ? सन्तीत्याह-तथेत्यादिना 'तथे 'ति समुच्चये, 'एककर्णेन्द्रियग्राह्यवर्णाः '-एकेन-केवलेन कर्णेन्द्रियेण-श्रोत्रं