________________
स्वस्वोत्पचेष्टादिविशेषगम्याः, स्वाभ्याससम्प्राप्तफलानुमेयाः ।
स्वनामयाथार्थ्यकथा निधायिनः, स्वीयप्रतिद्वन्द्विविनाशकारिणः ॥ २३ ॥ सयो विरोध्युत्थनिजावयान्ताः, इतीद्दशाः सर्वजनप्रसिद्धाः ।
शब्दाः स्वकीयोत्थगुणप्रधाना, वाच्या नरैरास्तिकनास्तिकैश्च ॥ २४ ॥
टीका - उक्तविषयमेव फलद्वारा स्पष्टयति- इत्यादीत्यादिना ' इत्यादिशब्दा: ' - एतत्प्रभृतिकाः शब्दाः, 'ये बहवो भवन्ति ' - अनेके सन्ति, ' ते ' - पूर्वोक्ताः शब्दाः, ' ही 'ति निश्चयेन, ' इह ' - अस्मिन्संसारे, 'जिह्वादिवत् ' - जिह्वादितुल्यं, ' शब्दवन्तः ' - शब्दयुक्ता न सन्ति 'स्वर्णादिवत् ' - स्वर्णादितुल्यं, ' रूपवन्तः ' - रूपेण युक्ताः, 'मो - नैव सन्ति, च ' - पुनः, अस्मिन् संसारे, 'पुष्पादिवत् ' - कुसुमादितुल्यं, 'गंधबंधुराः ' - गंधयुक्ताः, 'नो ' - नैव सन्ति, ' एव 'मिति
९. यथा नन्दनमानन्दः शोचनं शोक इत्यादिकथनधारिणः । २ आनन्दप्रतिद्वन्द्वी अनानन्दः शोकादिः तेनानन्देनानानन्दस्य विनाशः क्रियते एकस्य नाशेऽपरस्योपपत्तौ वस्तूनां भावाभावौ सिद्धौ एतौ तु तदा स्यातां यदा किञ्चिद्यस्तु स्यात् तत् सद्भावस्तु न साक्षात् स्वर्णादिवद्दश्यते सर्वत्र चेष्टयैव एषां सत्ता उपदिश्यते एवं नञ्समासादिमतामेषामभावरूपेण विनाशो लक्ष्यते । ३. सद्यः शीघ्रं आनन्दादीनां विरोधिनः शोकादयः तेभ्यः शोकादिभ्य उत्थ उत्पन्नो निजालयस्य आनन्दादीनां स्वनाम्नः आनन्देति शब्दस्याऽन्तोऽवसानमनुच्चारो येषां ते तथा अतएव यस्मिन् क्षणे यन्निमित्तानन्दोत्पत्तिस्तस्मिन् क्षणे तन्निमित्तमेव शोकायुत्पत्तेरभावात् शोकादीनामनुच्चार एवं सर्वशब्देष्वप्ययमेव धर्मोऽवसेयः ।
१६