________________
PRASANGEROSAURRESS
समुच्चये, 'सितादिवत् '-शर्करादितुल्यं, 'रसवन्तः '-रसयुक्ताः , 'नो' नैव सन्ति, 'च'-पुनः, 'पवनादिवत् '-, वायवादितुल्यं, 'स्पर्शवंतः '-स्पर्शयुक्ता न सन्ति, तर्हि कीदृशाः संतीत्यादिना ' किंत्विति'-अपि वित्यर्थः, 'एककर्णेन्द्रियरूपग्राह्याः '-केवलं श्रोत्रंद्रियेणाऽऽदेयाः सन्ति, तथा ' ताल्वोष्ठेत्यादि '-ताल्वोष्ठजिह्वादिस्थानाभिधेयाः सन्ति, तथा 'स्वस्वोत्थेत्यादि'-' स्वस्मादुत्था:-उत्पन्ना ये चेष्टादिविशेषास्तैर्गम्याः-ज्ञेयाः, आत्मीयात्मीयविभिन्नोत्पन्नचेष्टाविशेषबोध्या इतिभावः, सन्ति तथा ' स्वाभ्यासेत्यादि'-स्वाभ्यासे-निजाभ्यासे, 'संप्राप्तम् '-उपस्थितं यत्फलं तेनाऽनुमेयाः-अनुमातुं योग्याः, स्वकीयाभ्यासोत्पन्नफलानुमेया इतिभावः, सन्ति तथा 'स्वनामेत्यादि '-स्वनाम्नां, स्वकीयसंज्ञानाम् , यत् ' याथार्थ्यम् ' सत्यत्वं, तस्य 'कथा'-कथनं, तस्याः ‘निधायिनः'-धारिणः, 'नन्दनम् '-आनंदा, 'शौचनम् -
शोकः, इत्यादिकथनधारिण इतिभावः सन्ति, तथा स्वीयेत्यादि 'स्त्रीयः-स्वकीयः, 'य:' 'प्रतिद्वन्द्वी - & शत्रुः, तस्य 'विनाशकारिणः'-नाशकाः, सन्ति तथा सद्य इत्यादि ‘सद्यः'-शीघ्रमेव, ‘विरोधिभ्यः'-वैरिभ्यः,
'उत्थः'-उत्पन्ना, 'निजावस्य'-स्वनाम्नः, 'अंतः'-अवसानं, येषां ते तथा विरोध्युत्पत्तौ सद्य एव स्वनामनाशका इतिभावोऽस्ति, फलितमाह-इतीदृशा इत्यादि इतीदृशाः '-इत्थं प्रकाराः शब्दा:, 'आस्तिकनास्तिकैरि'ति-आस्तिकै स्तिकैश्चेत्यर्थः, ' नरैः'-जनैः, 'च'-शब्दश्वरणपूर्ती, 'वाच्या '-वक्तव्याः सन्ति, कथंभूताः शब्दा: १ 'सर्वजनप्रसिद्धाःसर्वलोकेषु प्रख्याताः, पुनश्च कथंभूता ? 'स्वकार्योत्थगुणप्रधानाः'-स्वकीये-स्वस्मिन् उत्थाः-उत्पन्ना ये गुणाः-माधुदियः तत्प्रधानाः स्वोच्चारणकालोत्पन्नगुणविशिष्टा भावः ॥ २१-२४ ॥
ॐॐॐॐ