________________
टीका - नास्तिक आह- सत्यमित्यादि ' ही 'ति चरणपूर्ती, ' सत्य 'मिति - एतत् पूर्वोक्तं वृत्तं सत्यमस्तीत्यर्थः, यत् ' अवबोधहान्याः ' - ज्ञानहानिवशात्, ' रात्रौ ' - रात्रिसमये, 'सकलेन्द्रियाणि - सर्वाणि श्रोत्रादीनि, ' प्रायेण '- बहुधा, 'मुह्यन्ति ' - मोहं प्राप्नुवन्ति, ज्ञानरहितानि भवतीतिभावः, ' तस्मात् ' - कारणात् ' अतद्वस्तुनि ' - रामादिभिन्नपदार्थ, तद्ग्रहः ' - रामादिग्रहणम्, रामादिभ्रान्तिरितिभावः, ' स्यात् ' - भवति, परिहारमाह - तदित्यादिना ' तत् ' - तर्हि, 'श्रोतंसाम् ' - इन्द्रियाणाम्, 'चित् ' - ज्ञानं, ' सदैव ' - सर्वदैव, 'सत्या' - यथार्था, नास्ति ॥ ५ ॥
मूलम् - पुनर्यथा पश्य जनेन नीरुजा, शङ्खः सितोऽस्तीति निरीक्ष्य गृह्यते । पुनश्च तेनैव रुजार्दितेन, स गृह्यते किं न बहूत्थवर्णः ॥ ६ ॥
टीका - विमोहदृष्टान्तरमाह - पुनर्यथेत्यादि ' पुनरि 'ति समुच्चये, ' पश्य ' - अवलोकय, त्वम्, 'यथा येन प्रकारेण, 'नीरुजा जनेन ' - रोगरहितेन मनुष्येन, शंखः ' सितोऽस्ति ' - श्वेतो विद्यते इति निरीक्ष्य एतत् सम्यक्तया निश्चित्य गृह्यते ' - आदीयते, 'पुनवे 'ति - कालान्तर इत्यर्थः, ' रुजार्दितेन ' - काचकामलीरोगपीडितेन, ' तेनैव ' - पूर्वोक्तेनैव जनेन, शंख:, ' किं बहुत्थवर्णः ' - अनेकवर्णयुक्तः, ' न गृह्यते ' - नादीयते, रोगार्दितेन तेनैव जनेन शंखो बहुवर्णो लक्ष्यत एवेतिभावः ॥ ६ ॥
१. काचकामलीरोगपीडितेन ॥