________________
-
मूलम्-यथा पुनः स्वस्थमनाः स्वयन्धून् , जानाति नैवं मधुमत्त एषः।
___सन्त्येषु तान्येव किलेन्द्रियाणि, कथं विपर्यास इयानभिष्यात् ? ॥७॥ टीका-अत्रैव दृष्टांतरमाह-यथेत्यादिना 'पुनरि ति समुच्चये, “स्वस्थमनाः '-शान्तचितः पुरुषः, 'यथा '-येन प्रकारेण, ' स्वबन्धून् जानाति '-आत्मनो बांधवान् वेत्ति, ' एवम् '-अनया रीत्या, तथेतिभावा, मधुमत्तः '-मयेनोन्मत्तः, 'एषः'-पूर्वोक्तो जनः, न स्वबंधून जानाति, पुष्टिमाह-सन्तीत्यादिना 'ए''-अस्त्रीस्त्रीदर्शककाचकामलीरोगपीडितमधुमत्तेषु 'किले 'ति निश्चये, ' इन्द्रियाणि '-श्रोत्रादीनि, ' तान्येव सन्ति'-पूर्ववद् वर्तन्ते, तर्हि ' इयान्'-एतावान् , ' विपर्यासः'-विपर्ययः, 'कथम् अभिष्यात् '-केन प्रकारेण भवति १ ॥७॥
मूलम्-पुरातनं ज्ञानमथेन्द्रियाणां, सत्यं तथा चाऽऽधुनिकं प्रमाणम् ।
नेदं वरं किन्तु पुरातनं सत्, तान्येव खानीह तु को विशेषः १ ॥८॥ १. एषु अस्त्रीस्त्रीदर्शक-काचकामलीरोगपीडित-मत्तेपु तान्येव स्वकीयसम्बन्धान्येव तादृशाकाराण्येव स्वस्थानस्थान्येव सन्ति । तर्हि कथं भ्रमो भवति ? । नास्तिकस्य तु रात्रिरोगमत्ततादयो न वाच्याः स्युर्गृहीतकप्रत्यक्षप्रमाणस्य नास्तिकस्य राव्यादीनां | पदार्थानामाकारवर्णगन्धरसस्पर्शादिशून्यानां करतलामलकवत् दर्शयितुमशक्यत्वात् । ततो नास्तिकस्य तेषामेवेन्द्रियाणामप्रमाणता | कथं स्यादित्येतदेवाह । २. स्यात् । ३. नास्तिकः पृच्छयते हे नास्तिक ! त्वं ब्रूहि, पुरातनं प्राचीनं शानं यदिन्द्रियाणामभूत् स्त्रियां स्त्रीशानं सितं शानं समीक्ष्य शङ्खग्रहणलक्षणं अमत्तस्य मानादिषु तवानं इत्येतत्पुरातनं शानं सत्यं किंवाऽऽधुनिक
-
-
-
-