________________
63
मूलम् - इत्थं विना प्रेरकमत्र कर्मणां भुक्ताविहोदाहरणान्यनेकशः ।
विचारितान्येव विचारचञ्चुरै - स्तद्वाक्प्रमाणं किल पारमेश्वरी ॥ ५९ ॥
-----
टीका -- फलितपूर्वकं निगमनमाह - ' इत्थम् ' - अनया रीत्या, ' प्रेरकं विना ' - प्रेरणकर्तारमंतरेणैव कर्मणां, 'भुक्तौ'भोगे, ' विचारचक्षुरै: '- विचारदक्षैः, विद्वद्भिः, 'अनेकश: ' - अनेकानि, 'उदाहरणानि ' - दृष्टान्तकथनानि, विचारितान्येव' - विमर्श नीतान्येव, सन्ति, ' तत् ' - तस्मात् कारणात् ' किले 'ति निश्वये, 'पारमेश्वरी वाक् ' - परमेश्वरसंबंधिनी वाणी, ' प्रमाणं ' - प्रमाणभूताऽस्ति ॥ ५९ ॥
परप्रेरणारहितकर्मभोगोक्तिलेशो द्वादशोऽधिकारः
এ
*4%