________________
-
-
ॐॐॐॐॐ152515
अथ त्रयोदशोऽधिकारः इन्द्रियमात्रप्रत्यक्षतास्वीकरणे दोषान् पञ्चविंशतिश्लोकैराहमूलम्-मुनीश ! केचिद् भुवि नास्तिका ये, न पुण्यपापे नरकं न मोक्षम् ।
स्वर्ग न च प्रेत्यभवं वदन्ति, को नाम तकः खलु तैः श्रितोऽस्ति ? ॥१॥ टीका-इदानीं नास्तिकमतं प्रदर्व तत्परिहतुकाम आह-मुनीशेत्यादि ' हे मुनीश !'-मुनिराज !, 'भुवि'पृथिव्याम् , संसार इति यावत् , 'ये केचित् '-केऽपि पुरुषाः, नास्तिकाः सन्ति ते, 'पुण्यपापे'-धर्माऽधौं, 'न वदन्ति'- | न कथयन्ति, न मन्यन्त इतिभावः, एवमग्रेऽपि बोध्यं, नरकं न वदन्ति, 'मोक्षम् '-मुक्तिं न वदन्ति, 'स्वर्ग' स्वर्गलोकं न वदन्ति, 'च'-पुनः, 'प्रेत्यभवं '-पुनर्जन्म न वदन्ति, 'खल्वि 'ति निश्चये, 'नामे 'ति प्रसिद्धौ वितर्के वा, 'तैः'-12 नास्तिकैः, 'तर्कः '-ऊहः, अपूर्वोत्प्रेक्षणमितिभावः, 'श्रितोऽस्ति'-मतो भवति ॥१॥ मूलम् ते नास्तिका दृश्यपदार्थसक्ता, नोइन्द्रियादेयविचारमुक्ताः।
प्रत्यक्षमेकं वृणुते प्रमाणं, पञ्चेन्द्रियाणां विषयोऽस्ति यत्र ॥२॥ १. प्रत्यक्षे । १५