________________
मूलम्-सिद्धात्मनां सिद्धतया दशात्रयी, न कर्मणां तस्कृतपूर्वनाशतः।
भुक्ताऽप्यवस्था भवदेषु केवलि-भवावसानं न तदत्र कापि सा ॥१७॥ टीका-अत्र विशेषमाह-सिद्धात्मनामित्यादिना 'सिद्धतया'-सिद्धभावेन, सिद्धिंगतत्वेनेति यावत् 'सिद्धात्मनां - सिद्धजीवानां, 'कर्मणां' 'दशात्रयी'-तिस्रोऽवस्था न भवति, कुतः ? इत्याह-तत्कृतेत्यादि । तत्कृतपूर्वनाशतः - स्वकृतपूर्वनाशात्, तर्हि मुक्तावस्था सर्वदा तेषु स्यादित्यपि परिहर्तुमाह-भुक्ताऽपीत्यादि भवदेषु'-भवं नंति खण्डयंतीति भवदास्तेषु, सिद्धेष्वित्यर्थः, 'भुक्ताऽप्यवस्था'-मुक्तदशापि, 'केवलिभवावसानं '-केवलज्ञानप्राप्तिभावपर्यन्तम् भवति, 'तत्-तस्मात् कारणात् , ' अत्र '-सिद्धेषु, 'सा'-मुक्तावस्था, 'काऽपि '-काचित् न भवति ॥ ५७ ॥ ॥ मूलम्-मया विचारोऽयमवाचि कर्मणा-मजानता लोकंगतैर्निदर्शनैः।।
सामान्यलोकप्रतियोधनाय, ज्ञेयः प्रवीणैस्तु पुराणयुक्तिभिः ॥५८॥ टीका-उक्तविषयमुपसंहर्तुमाह-मयेत्यादि । सामान्यलोकप्रतिबोधनाय '-साधारणज्ञानाय, 'लोकगतैनिदर्शनैःलोकप्रसिद्धेदृष्टान्तः, अजानता'-विज्ञानरहितेन, 'मया' 'अयं '-पूर्वोक्तः, कर्मणाम् ‘विचारः'-विमर्शः, 'अवाचि'उक्तः, 'प्रवीणैः '-दक्षैः पुरुषैः, 'तु' शब्दो विशेषार्थः, 'पुराणयुक्तिभिः 'प्राचीनाभियुक्तिभिः, 'अयं'-कर्मणां विचारः, 'ज्ञेयः।-अवबोध्या, निश्वेतव्य इतिभावः ॥ ५८॥ १. लोकप्रसिद्धः।
SEARCH
-
-