________________
पृथिव्याः, ' घनबिंदुवृन्दवदस्ति ' - मेघबिन्दुसमूह इव भवति, चिरस्थायि भवतीतिभावः, 'तु ' - परन्तु, ' यके ' - ये, 'कैवल्यभाजः ' - केवलस्य भावः, कैवल्यं तद् भाजस्तेन युक्तः केवलज्ञानिन इतिभावः, 'महान्तः ' - महात्मनः, योगिन इति यावत् भवन्ति, ' तेषाम् ' - पूर्वोक्तानाम् महात्मनाम्, 'तु' शब्दो विशेषार्थः, कर्माणि यद्यपि, ' शिलाग्रवृष्टिवत् ' - पाषा - णाऽग्रभागपतितवृष्टिरिव, ' अल्पस्थितीन्येव ' - अल्पकालस्थायीन्येव भवन्ति, 'तथाऽपि ' - तदपि, ' तत्राऽपि ' - केवलिसत्ककर्मसत्तायामपि, 'तत्' - पूर्वोक्तं, 'दशात्रयं ' - तिस्रोऽवस्थाः, भुक्त भोग्य - भुज्यमानरूपास्तिस्रो दशा इतिभावः, 'तु' शब्दो निश्चये, ' गवेषणीयं ' - अन्वेषणीयम् ज्ञातव्यमितिभावः ॥ ५४-५५ ॥
मूलम् -- सर्वत्र कर्त्रादिपरप्रणोदनां विनैव द्रव्यदिचतुष्टयस्य ।
तादृक्स्वभावादिह कर्मणां त्रयी, भुक्तादिकाऽसौ भविमुक्तंजीवगा ॥ ५६ ॥
टीका — उक्तविषयमेव स्पष्टयितुमाह - सर्वत्रेत्यादि 'कर्त्रादिपरप्रणोदनां विनैव ' - कर्त्रादेरन्यस्य प्रेरणामंतरेणैव, 'द्रव्यादिचतुष्टयस्य ' - द्रव्य-क्षेत्र - काल - भावानां, ' तादृक्स्वभावात् ' - तथाविधस्वभाववशात्, 'इह ' - अत्र, ' सर्वत्र ' - सर्वजीवेषु, ' भविमुक्तजीवगा ' - संसारिकेवलिजीवसंबंधिनी, 'असौ ' - पूर्वोक्ता, ' भुक्तादिका ' - भुक्त भोग्य - भुज्यमानरूपा, 'कर्मणां त्रयी ' - कर्मत्रिविधता भवति ॥ ५६ ॥
१ द्रव्यक्षेत्रकालभावरूपस्य । २. संसारिकेव लिजीवसम्बन्धिनी ।